पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१८१

पुटमेतत् सुपुष्टितम्
१६७
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।

भजे भवानीभवनावतंस-
 मादित्यवर्णं तमसः परस्तात् ॥ १२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्धया तदक्षरे परमे व्योमन् ॥ १३ ॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥

नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥

पर्यङ्कतल्पोपरि दर्शनीयं
 सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
 त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६॥

जटारुणं चन्द्रकलाललामं
 उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
 समस्तसाक्षिं तमसः परस्तात् ॥ १७॥