पुटमेतत् सुपुष्टितम्
१८०
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
नाकस्त्रीणां किन्नरीणां नृपाणा- .
मप्याकर्षी चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥ ८५ ।।
नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वां दिशोऽनुविधावति ।। ८६ ॥
त्रिकलाढ्यां बिह्रल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षर: परमः स्वराट् ।। ८५ ॥
दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
द्वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैत-
दुषा सा नक्ता सुदुघेव धेनुः ।। ८८ ।।
यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालय: कालयोगा-
त्तं तं लोक जयते तांश्च कामान् ।। ८९॥