एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
मीनाम्भोरुहखजरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् ।
माध्वीपानमदारुणेऽतिचपले दी हगम्भोरहे
देवि स्वर्णशलाकयोर्जितमिदं दिव्यानं दीयताम् ।।
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
देवाद्भागवजीवमध्यगरवेलक्ष्मीमधः कुर्वतीम् ।
उत्सित्ताधरबिम्बकान्तिविसरैभौमीभवन्मौक्तिका
महत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥
उडुकृतपरिवेषस्पर्धया शीतभानो-
रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
भवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ।।
मरकतवरपद्मरागहीरो-
त्थितगुलिकात्रितयावनद्धमध्यम् ।
विततविमलमौक्तिकं च
कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ।।