पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


गन्धपुष्पयवसर्षपदूर्वा-
 संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
 रर्घ्यमेतदुररीकुरु मात: ॥ ८ ॥

जलजद्युतिना करेण जाती-
 फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
 र्भगवत्याचमनं विधीयताम् ।। ९ ।।

निहितं कनकस्य संपुटे
 पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पित
 मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥

एतञ्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
 न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैघृतं ते मया
 केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥