पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


शरदिन्दुमरीचिगौरवर्णै-
 र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
 महमानन्दभरेण वीजयामि ॥ ४४ ॥

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
 भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
 मस्मिन्विलोकय बिलोलविलोचने त्वम् ॥ ४५ ॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
 र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
 नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६॥

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
 कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थ मया ते
 तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥