पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


डमरुडिण्डिमजर्झरझल्लरी-
 मृदुरवद्रगडगडादयः ।
झटिति झाङ्कृतझाकृतझाङ्कृतै-
 र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥

विषञ्चीषु सप्तस्वरान्वादयन्त्य-
 स्तव द्वारि गायन्ति गन्धर्वकन्या: ।
क्षणं सावधानेन चित्तेन मात:
 समाकर्णय त्वं मया प्रार्थितासि ।। ५७ ।।

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
 क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
 भगवति भवदीयं मानसं रञ्जयामि ।। ५८ ॥

तव देवि गुणानुवर्णने
 चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु
 स्तवनं कस्तव कर्तुमीश्वरः ।। ५९ ॥