पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥श्रीः॥

॥ ललितापञ्चरत्नम् ॥


प्रातः स्मरामि ललितावदनारविन्द
 बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
 मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १॥

प्रातर्भजामि ललिताभुजकल्पवल्ली
 रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
 पुण्ड्रेक्षुचापकुसुमेषुमृणीर्दधानाम् ॥ २ ॥

प्रातर्नमामि ललिताचरणारविन्दं
 भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
 पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥