पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६३

पुटमेतत् सुपुष्टितम्

।। श्रीः॥

॥ मन्त्रमातृकापुष्पमालास्तवः ॥


कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
 द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
 चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ।। १॥

एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
 बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
 तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥२॥

ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं
 पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
 कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ।। ३ ।।