पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७

पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ शिवभुजंगम् ॥



गलद्दानगण्डं मिलद्भुङ्गषण्डं
 चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
 शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥

अनाद्यन्तमाद्यं परं तत्त्वमर्थं
 चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
 मनोवागतीतं महःशैवमीडे ॥ २ ॥

स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
 मनोहारिसर्वाङ्गरत्नोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
 पराशक्तिमित्रं नुम: पञ्चवक्रम् ॥ ३ ॥