पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७२

पुटमेतत् सुपुष्टितम्
२५८
भवानीभुजंगम् ।


सुशोणाम्बराबद्धनीवीविराज-
 न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
 वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
 पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
 महाहारदीप्तं सदा प्रस्नुतास्यम् ॥५॥

शिरीषप्रसूनोल्लसद्बाहुदण्डै-
 र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो.
 ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
 धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
 महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥