पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४०

पुटमेतत् सुपुष्टितम्
२८
शिवानन्दलहरी ।


यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
 र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
 महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥

गभीरे कासारे विशति विजने घोरविपिने
 विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
 सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता
 पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-
 विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
 नरो वा य: कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हॄत्पद्मं यदि भवदधीनं पशुपते
 तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥