पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६९

पुटमेतत् सुपुष्टितम्
५७
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 जानुद्वन्द्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
  राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ।
 ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ
  चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ।। १९ ॥


 आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
  दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
 संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
  नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः॥ २० ॥


 संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
  व्यानद्धः स्निग्धमुग्ध: सरसमुदरबन्धेन वीतोपमेन ।
 उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
  मध्यो मिथ्यार्थसध्ध्यङ्मम दिशतु सदा संगतिं मङ्गलानाम् ।। २१ ॥


 नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
  दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्ष्रः प्रयान्ती।
 श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
  सा मा सोमार्धमौले: सुखयतु सततं रोमवल्लीमतल्ली ॥ २२ ॥