वक्त्रॆन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम्।
प्रायुङ्क्तेवाशिषो य: प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥ १५ ॥
प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्या:
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
{{gap}द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ।। १६ ॥
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धो: प्रवाहा:
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।
तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ।। १७ ॥
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्ष्नजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत्।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥ १८ ॥