पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९

पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ गणेशपञ्चरत्नम् ॥


मुदा करात्तमोदकं सदा विमुक्तिसाधकं
 कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
 नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
 नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
 महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
 दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
 मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥