पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१२

पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

त्तज्ञानान्तरनिमित्तप्रयोगजन्यत्वाभावान्न दोषशङ्का। नापि तन्निरासापेक्षेति नैरपेक्ष्यमित्युच्यते । अन्यथा न वेदे प्रमितिलाभ इत्युक्तम् । तदेवं लोकेऽपि न प्रमितावपेक्षा। ननु स्वविषयज्ञानान्तरजन्या स्मृतिः सापेक्षा, तथेहापि स्यात् । तन्न । मानान्तरसम्भिन्नार्थत्वात् तत्र सापेक्षता। अन्यथानुमाने व्यापकोऽग्निरिति व्याप्तिज्ञानजन्येऽपि तथा स्यात् । न तथेह संभेदः, शब्दस्यार्थमात्रे सामर्थ्यादिति । तस्माद् युक्तमसन्निकृष्टग्रहणम् । अतः समीचीनमेव शाब्दलक्षणमिति स्थितम् ॥ ९॥ कि पुनः शब्दशब्देनाभिधीयते, यदाकारविज्ञानादर्थबुद्धिः शाब्दी। जातिरित्याह-

शब्दशब्दोऽपि तज्जातावखण्डत्वाददृष्टतः ।

उपाधेः प्राग्विकल्पाच्च प्रत्यभिज्ञा च लोकवत् ॥ १०॥

एक1स्याभिधानस्य विभिन्नार्थता प्रतीता शक्तिभेदं सामान्यं वावलम्बते । शक्तिभेदे त्वभिधेयानन्त्यात् सम्बन्धज्ञानाशक्तिः कल्पनागौरवं च स्यात् । स्यादेतत् । यथा वाचकशब्दस्तदुभयं नापेक्षते,तद्वदिहापि स्यादिति । नैतद् युक्तम्।तत्र यौगिकत्वाच्छब्दस्यावयवार्थसामान्ययोगेन विभिद्यमानेष्वर्थेषु तदुभयमन्तरेणापि प्रवृत्तिसम्भवात् । अयं पुनरखण्डः शब्दो नावयवशक्त्या शब्दविशेषानाहेतिसामान्यमेवावलम्बनीयम् । नन्विदं तत्कारणमित्यादयः शब्दास्तटस्थमेवोपाधिमवलम्ब्य


१. ‘त’ ग. पाठः२. ‘र्थवृत्तिता श’ क. पाठः३. ‘न.' ग. पाठः४. ‘नुवृ' क. पाठः५. ‘षमाहे' ग पाठः