१०
शाब्दनिर्णय:
विलक्षणाकारप्रतिपत्तिः, येन प्रथममभिधानानुषङ्गः स्यादित्युक्तम् । न च द्रव्यरसादिसमानं शब्दान्तरं प्रतीयते । किञ्च श्रोत्राद्युपाधौ चैकत्वकल्पनाद्वाराभिधेयैकत्वकल्पनं, मा भूच्चोदात्तानुदात्तपटुमृदुत्वादीनां श्रोत्रग्राह्यतया शब्दशब्दार्थता, उदात्तः शब्द इत्यादिना १ शब्देन धर्मिणासामानाधिकरण्यात्। तस्माज्जातिकल्पनैव श्रेयसी । अतस्तज्जात्युपरक्तज्ञानादर्थबुद्धिः २शाब्दीति स्थितम् ॥ १० ॥
इदानीमर्थप्रतिपत्तिनिमित्तं शब्दं विमृशति-
वर्णातिरिक्तशब्दाद् वा वर्णविज्ञानसंस्कृतै:
स्मारकैर्वातिरिक्तैर्वा वर्णेभ्यो वार्थधीर्भवेत् ॥ ११ ॥
वर्णेभ्योऽतिरिक्तादेकशब्दप्रत्ययालम्बनात् पदसंज्ञकात्
पदार्थप्रत्यय इत्येके सङ्गिरन्ते । वर्णविज्ञानसंस्कारैर्वर्णस्मृतिहेतुभिरित्यन्ये।३ तैरेव स्मारकसंस्कारातिरिक्तैरर्थप्रत्यय इत्यपरे । वर्णेभ्य एवेति केचित् ।। ११ ।।}
तत्रान्त्यं पक्षमात्मीयत्वेन स्वीकरोति-
वर्णा: स्वज्ञानसंस्कारै: संभूयस्मृतिकारिभिः ।
क्रमेणैकस्मृतौ बुद्धा बोधयन्त्यर्थमञ्जसा ॥ १२ ॥
{{c|तदेतत्पूर्वपक्षनिराकरणमुखेन प्रतिपादयितुं वर्णव्यतिरिक्तशब्दवादं वर्णयति-
वर्णान्नैकैकतो४ बुद्धिरुपलब्धात् सतोऽपि वा ।
अदृष्टेरुपलब्धाद् वा स्मृताद् वा संहतान्न धीः ॥ १३ ॥
१. 'दीनां श' क. पाठः, २. 'र्थे', ३. ‘त्येके सङ्गिरन्ते । तै', ४. ‘दे’ ग. पाठः