पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२०

पुटमेतत् सुपुष्टितम्

१६

शब्दनिर्णयः ।

ये तु स्मारकसंस्कारव्यतिरिक्तानर्थावबोधकानपूर्वसंस्कारानेव कल्पयन्ति, तान् प्रत्याह-

अयुक्तालौकिकी क्लृप्तिः संस्कारे क्लूप्तिगौरवात्।

पदादेवार्थसंबुद्धेस्तत्र क्लृप्तिर्लघीयसी ॥ १९ ॥

अवश्यं हि त्वयापि वर्णातिरिक्तं पदं निराकुर्वता अशेषवर्णावमर्शि विज्ञानं पदव्यवहारायोपगन्तव्यम् । तदानीं तत एवार्थसिद्धेर्नालौकिकसंस्कारकल्पनावकाशः। कल्पनागौरवाच्च वर्णज्ञानानामपूर्वसस्कारसामर्थ्यं संस्कारस्वरूपाणेि तेषामर्थबुद्धिसामर्थ्यं चेति । नायं दोषो वर्णस्मृतिपक्षे । ननु न संस्कारा नियमेन स्मृतिमुत्पादयन्ति, यतो नियमेनान्त्यवर्णानन्तरमर्थबुद्धिः स्यात् । अपूर्वसंस्कारपक्षेऽपि समानोऽयं दोषः। कार्यदर्शनाद् नियमेनोत्पादकत्वकल्पना वर्णस्मृतिपक्षेऽपि तुल्या । तस्मात् स्मर्यमाणवर्णेभ्य एव पदार्थप्रतिपत्तिरिति स्थितम् । तथाच ‘देवताधिकरणे भाष्यं- “वृद्धव्यवहारे चेमे वर्णाः क्रमानुगृहीता गृहीतार्थविशेषसम्बन्धाश्च सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तम् तमर्थमव्यभिचारेण प्रत्याययिष्यन्ति” इति ॥ १९ ॥ इदानीं वाक्यार्थप्रतिपत्तिनिमित्तं शब्दं विमृशति-

गृहीतपदसम्बन्धाद् वाक्याद् वा पदभागिनः।

पदार्थेभ्यः पदेभ्यो वा संसर्गं प्रतिजानते ॥ २० ॥


  • ब्र० अध्या० '१ पा° ३. सू० २८.