पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२७

पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः

२३

परस्परानपेक्षजन्यबुद्धिगोचरानेव पदार्थानितरेतरसंसर्गितयासम्भूय पदानि प्रमिमत इति नानियमप्रसङ्गः ! किन्त्वपदार्थेऽपि कृत्स्नविशेषसंसर्गबुद्धिसमर्थे सहकारिपदार्थान्तरमनेकसंसर्गबुद्धिसमर्थं केन विशेषणेन संसर्गं नियमयेत् । अथाभ्यर्हितत्वात् स्वरूपेणैव नियमयेत्, तर्हि पदमपि निरपेक्षबुद्धिगोचरेण पदार्थस्वरूपेण संसर्गं नियम्य प्रमिमत इति न कश्चिद् विरोधः। अत एवानपेक्षबुद्धिगोचरत्वाद् गोत्वादयो गवादिशब्दानां स्वार्था इति विशेषेणोच्यन्ते। स्यादेतद् – गामानयेति प्रयोगे पदयोरितरेतरसंसृष्टस्वार्थाभिधानात् पर्यायत्वप्रसङ्ग इति । नैतत् सारम्। एकस्मादेव हि पदात् सहकारिपदान्तरनिरपेक्षाद् यावानर्थः प्रतीयते, तावानेव यदि पदान्तरादपि केवलात् प्रतीयेत, स्यात् तयोः पर्यायत्वं , प्रसिद्धे: । न तथेह समस्ति, परस्परसापेक्षत्वनिमित्तैककार्यमात्रत्वात् । तस्मान्न पदान्तरवैयर्थ्यमनियमो वा ॥ ३० ॥

स्यादेतत्-प्रतिप्रयोगं संसर्गिभेदाद् भिद्यमाने संसर्गे

शक्यभेदादेकस्य गोशब्दस्यानन्ताः शक्तयः कल्पयितव्याः प्रसज्येरन्निति । तत्राह-

विचित्रसहकारित्वात् कार्यभेदस्य सिद्धितः ।

शक्तिर्न भिद्यतेऽर्थेषु तथा शब्देषु चाक्षवत्॥३१॥

अर्थोऽपि खलु संसर्गं प्रतिपादयन् प्रतिविशेषं संसर्गभेदाद् भिद्यमानशक्तिः स्यात् । अथ सहकारिपदार्थवैचित्र्यादेकयापि शक्त्या कार्यवैचित्र्यम् सिध्यति । यथा चक्षुषो नीलपीतादिविषयसहकारिभेदादेवैकयापि रूपप्रकाशनशक्त्या