३०
शाब्दनिर्णयः।
पकरणैः । गृहीतसम्बन्धानामेव शब्दानामन्वयव्यतिरेकवत्त्वात् । तस्मान्न पदार्थेभ्यः संसर्गप्रत्ययः प्रमाणपक्षपाती ॥३८॥ कथं पुनरन्विताभिधाने लक्षणावृत्ति:, यावता न मुख्यमर्थमर्थान्तरसंसर्गितया प्रतिपादयति । नापि लक्ष्यमाणं, तदभिधायकपदाभावात् । अतो लक्ष्यमाणार्थनिबन्धनस्तत्र संसर्ग: । अध्याहारे चाध्याह्रियमाणार्थनिबन्धन एव संसर्गः, तदभिधायकपदाभावादिति । तत्राह-
लक्षणायां च तद्वाचिपदात् संसर्गधीर्भवेत् ।
अध्याहारे च शब्दार्थापत्तिलब्धात् पदाद्धि सा॥ ३९॥
मञ्चशब्दः क्रोशनेन संसृष्टस्वार्थं प्रतिपादयितुं प्रवृत्तस्तत्र विरोधात् क्रोशनसंसर्गितया स्वार्थबुद्धिद्वारेण पुरुषे बुद्धिमुत्पादयति । क्रोशनसंसर्गितया शब्दात् प्रतिपन्नो हि मञ्चपदार्थः पुरुषे क्रोशनसंसर्गिणि बुद्धिहेतुर्न केवल इत्यतः सन्निहितपदाभिधेयार्थसंसर्गिपदार्थप्रतिपादनाय२प्रवृत्तं पदं व्यवधानेनाव्यवधानेन वा यत्राकाङ्क्षितार्थप्रतिपत्तिहेतुः तत्संसर्गस्तन्निबन्धन इति नान्विताभिधानपक्षस्वीकारविरोधः। व्यक्तिलक्षणायामपि सामान्यबुद्धेरव्यभिचारेण व्यक्तौ पर्यवसानात् तत्सामान्यसंसर्गाभिधानमेव विशेषसंसर्गेऽपि निमित्तम् । अर्थवादिनां चाभिहितानामसंसर्गादन्वयिनां चानभिधेयत्वात् सद्वारं प्रतिपादकत्वमविशिष्टम् ३। अध्याहारे च प्रमेयैकदेश
१. ‘ने सं’ ख. ग. पाठः. २. ‘र्थे' क्र. पाठः. ३. ‘व’ । ख. ग. पाठः