पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४६

पुटमेतत् सुपुष्टितम्

४२

शाब्दनिर्णयः ।

किञ्च

भूतार्थबुद्धिर्नामानन्याध्याहारो न चानुमा।

कल्पनागौरवात् कार्यदृष्ट्या तच्छक्तिरिष्यताम्॥५१॥

न तावल्लौकिकी भूतार्थबुद्धिः शब्दनिबन्धना न प्र-

माणम् , प्रत्यक्षादिव शब्दाद् भूतार्थं प्रतिपद्य प्रमाणान्तरेणोपकारापकारहेतुतां चानुस्मृत्यार्थाविसंवादिव्यवहारात् । अथ तत्रापि कार्यमध्याह्रियते, न तावदर्थसमवायिनः कार्यस्याध्याहारः । प्रतिपत्तुः तत्र प्रवृत्तिनिवृत्त्योरभिप्रायापरिज्ञानात् । नापि ज्ञातव्य इत्यध्याहारः। यतो देवदत्तो निर्गत इति ज्ञातव्य इत्यत्र देवदत्तनिर्गमनपदार्थस्वरूपे तत्संसर्गे वा पदाभ्यामेव ज्ञानोत्पत्तौ निष्पन्नविषयकार्यायोगाद् न योग्यतालक्षणः पदसमन्वयः स्यात् । अनुत्पन्ने तु विहिते च ज्ञाने न देवदत्तनिर्गमनज्ञानोत्पादः, पदयोस्तत्रानुत्पादकत्वात् । विधिपदस्य च देवदत्तनिर्गमनज्ञानकर्तव्यतायां ज्ञानहेतुत्वात् । विधेयस्य च ज्ञानस्य विधिविषयज्ञानस्य च भिन्नत्वात् । तस्माज् ज्ञातव्य इत्यध्याहारे भूतप्रमितिलोपः प्रसज्येत । किञ्च, सम्बन्धज्ञाने कायमित्यधिकं प्रयोजकं कल्पयित्वा लोके- ऽपि प्रतिवाक्यमप्रतीतस्य पदस्याध्याहारकल्पनाद् वरमन्विते सामर्थ्यकल्पनम् । अथ लौकिकी भूतार्थप्रमितिर्न शाब्दी । किन्त्वनुमाननिबन्धनेति , न , तत्राप्यन्वयव्यतिरेकवच्छब्दपरित्यागेकल्पनागौरवात् । । न च कार्यसंसृष्टसमर्थेभ्यः


१. ‘त्रान्व’ स्व. पाठः