शाब्दनिर्णयः ।
४५
म्परया वाभिलषितसाधनविषयस्य पदार्थांशे प्रवृत्तिहेतुत्वात्। किन्तु१ कारणसामर्थ्यवद् विषयस्य कृतियोग्यतापि प्रवृत्तावु- पसर्जनत्वेनापेक्ष्यते । प्राधान्यं तु हितसाधनस्यैव , सत्यपि कृतियोग्यत्वे हितसाधनताभावे विशिष्टप्रवृत्त्यदर्शनात् २। ननु कार्यस्याप्यन्वयव्यतिरेकयोस्तुल्यत्वात् कार्यमेव प्रधानमिति किं न भवेत् । न, कालोपबन्धलक्षणप्रतिबन्धनिरासकत्वेनापि ३ कृतियोग्यताया अन्वयव्यतिरेकयोरन्यथासिद्ध्युप- पत्तेः। ननु प्रतिबन्धनिरास ४(क)त्वकल्पनाद् ५ वरं हेतुत्वकल्पनम् । तन्न, सति ह्येकस्मिन् कारणेऽनन्यथासिद्धान्वयव्यतिरेकाभ्यां कारणान्तरं कल्प्यते । तौ चान्यथासिद्धावित्युक्तम् । ननु कालोपबन्धः प्रतिबन्धः, किं ६ वा कारणाभावः । प्रतिबन्ध(क?) एव , क्लृप्तकारणे हितसाधनत्वे तत्रापि विद्यमाने प्रवृत्तिकार्यविरोधित्वादक्लृप्तत्वाच्च कार्यतायाः । नन्वेवं सर्वत्र सहकारिकारणलोपः७स्यात् । न स्यात् । यत्र कार्यविरोधिभावान्तरव्युदासेन यस्यान्वयः, तत्र प्रतिबन्धनिरासेनैव तस्यान्वयः । यत्र ८तु स्वभावमात्रव्युदासेनान्वयव्यतिरेकाभ्यां यस्य कार्यान्वयः , तस्य तत्र कारणत्वेनैवान्वयः ९ । इह तु कालोपबन्धनज्ञानं प्रवृत्तिविरोधि भावान्तरम् । तच्च व्युदस्यते कार्यताज्ञानेन ९० । न च कुलालादेर्विरोधिपिण्डान्तरनिरासेनैवान्वयः , किन्तु कारणत्वेनैव। क्वचिन्निवृत्तेऽपि तस्मिन् घटा-
१. ‘ञ्च’ ख. ग. पाठः २. ‘त् (फले ?) न’ ख. पाठः ३. ‘सत्वे' ख. ग. पाठः ४. ‘सकल्प क. पाठः,५. ‘द्वारं ग. पाठः ६. ‘किं का' ख. ग. पाठः ७.णोपादानलो’ क. पाठः. ८. 'स्य' ख. ग. पाठ:। ९. 'नान्व’, १०. ने । न च' क. पाठः