पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५०

पुटमेतत् सुपुष्टितम्

४६

शाब्दनिर्णयः।

नुत्पत्तेः । इह तु हितसाधनज्ञानं कालविविक्तं सति कारणसामर्थ्ये प्रवृत्तिं प्रसूत एव । ननु कार्यतैव प्रवृत्तिहेतुः । तस्याः फलोपरागः प्रवृत्तिप्रतिबन्धकः । तन्निरासोऽभिमतसाधनतेति किं न कल्प्यते । दुःखतत्साधनयोः कृत्या निष्पत्तियोग्ययोरपि हितसाधनताभावे प्रवृत्त्यदर्शनात् । अथ तयोरपि प्रवृत्तिप्रतिबन्धकता । न । उभयशून्येऽपि वस्तुमात्रे निष्पादनयोग्येऽपि प्रवृत्त्यदर्शनात् । अथ तदपि प्रवृत्तिविषयतया किञ्चिद् दुःखकरत्वात् प्रवृत्तिप्रतिबन्धकम्।न।तस्मिन्नेवाभिलषितसाधनभावेऽवगते पश्चात् प्रवृत्तेः। अथ सर्वत्र हितसाधनताभावज्ञानं प्रवृत्तिप्रतिबन्धकम्। न । योग्यानुपलब्ध्यभावेऽभावनिश्चयाभावाद् निष्पादनयोग्ये वस्तुमात्रस्वरूपेप्रवृत्तिः स्यात् । अथ न निष्पादनयोग्यता कार्यता, किन्तु बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता । सा च हिते तत्साधने वा । नान्यत्र । अतः फलमेव प्रवृत्तिप्रतिबन्धकम् । तत्साधनतातु तन्निरास इति । तर्हि बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता विषयसमवायिनी निष्पादनयोग्यतामात्रव्यतिरिक्ताभिलषितता तत्साधनता वा नान्यद्, अनिरूपणात् । प्र- वृत्त्यभावविरोधितेति चेद्, न, प्रवृत्तेरेव प्रवर्तकत्वप्रसङ्गात् । प्रवर्तकत्वे सति प्रवृत्त्यभावविरोधितेति चेत् । राग एव तर्हि सा । कर्तव्यता तु विषयसमवायिनीति हितादिरेव वा प्रवृत्त्यभावविरोधी । तत्र हितस्य विशिष्टप्रवृत्तिहेतुत्वाभावाद्धित-


१. ‘प्रति' क. पाठः २. ‘कारणत्वा’ , ३. ‘प्रति’ ख. ग. पाठः ४. ‘स्तुस्व', ५. ‘ता त' क. पाठः