पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६४

पुटमेतत् सुपुष्टितम्

६०

शाब्दनिर्णयः ।

विषयनियोज्ययोरेकनियोगसम्बन्धसामर्थ्यात् परस्परसम्बन्धे सति नियोज्यविशेषणस्यापि स्वर्गस्य धात्वर्थेन सम्बन्धात् सम्बन्धस्य च गुणप्रधानभावमन्तरेणायोगात् स्वर्गः साध्यत्वात् प्राधान्येनावतिष्ठते । कोऽयं नियोज्यो नाम । ममायं नियोग इति प्रतिपत्ता । तर्हि राज्ञोऽपि स्वनियोगे नियोज्यत्वप्रसङ्गः । कश्चायं ममायमिति सम्बन्धः । यदि कर्तृकरणीयता , तर्हि राज्ञोऽपि नियोज्यताप्रसङ्गः । न च स्वस्वामिसम्बन्धनिमित्तं क्रयादिलक्षणमत्र विद्यते । अथ विषयविषयिता सम्बन्धः । न । अभिप्रायभेदत्वाभावे विषयानपेक्षत्वात् । अथ कार्यार्थप्रतिपत्ता नियोज्यः। न । नियोक्तू राज्ञोऽपि प्रसङ्गात्। अथोद्देश्यश्चेतनो नियोज्यः । न। उद्देशेन सम्बन्धानिरूपणात्। सत्यपि नियोज्ये स्वर्गकामना न तद्विशेषणं भवति , सम्भवे व्यभिचारे च विशेषणमर्थवत् । उच्यते- न तावद् दर्शपूर्णमासनियोगस्य पुरुषेणायोगो व्यवच्छिद्यते, विशेषणेन यावज्जीवश्रुतेरेव नियोगसिद्धेः । नाप्यन्ययोगव्यवच्छेदः। अस्वर्गकामिनोऽपि प्रदोषकालव्यावृत्तजीवने सत्यनुष्ठेयत्वात् । भवदपीदमुपलक्षणं भवेद्, न विशेषणम् । पुरुषस्यैव नियोज्यत्वात्, स्वर्गकामनाया नियोज्यत्वाभावात् । कार्यसम्बन्धासम्बन्धाभ्यां हि सम्बन्ध्यन्तरनियामकत्वाद् विशेषणोपलक्षणविभागः। अत विषयनियोज्यसम्बन्धं कुर्वन्नपि नियोगः पुरुषसम्बन्धमेव करोति विषयस्य । नोपलक्षणसम्बन्धम् ।


१. 'र्ग', २. ‘क्रि’ ख. ग. पाठः