पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६५

पुटमेतत् सुपुष्टितम्

शब्दनिर्णय:

६१

सम्बन्धे वा जीवनादेरपि विषयसम्बन्धः स्यात् । तत्र भावार्थे प्रति गुणत्वेन सम्बन्धे जीवनादेरङ्गत्वापत्तेर्दर्शपूर्णमासविकृतावपि जीवनादेरतिदेशप्रसङ्गः। प्राधान्ये[१]जीवनादेरपि साध्यताप्रसङ्गात् ,सर्वाङ्गोपसंहारस्य नित्येऽपि कर्मणि प्रसङ्गः । किञ्च कामस्य नियोज्यविशेषणत्वे सति तस्मिन् नियोगसम्बन्धाद् जीवनादिवन्निमित्तत्वापत्तेः अकरणे प्रत्यवायोऽपि स्यात् । तस्मात् प्रत्ययेन फलसाधनतामात्रेऽवगते तद्विशेषाकाङ्क्षायां स्वर्गकामपदं समाससामर्थ्यात् पुरुषप्रधानमपि स्वर्गस्य कामविषयतया साध्यताप्रतीतेस्तत्परतया फलविशेषसमर्पकत्वेन सम्बध्यते । अर्थात् तत्कामिनस्तत्राधिकार इति रमणीयम् ॥ ५९ ॥ ननु तिङ्कृत्तद्धितसमासैरनभिहित इति विशेषणात् तिङा यागस्य करणतायामभिहितायां ज्योतिष्टोमेनेति तृतीया नोपपद्यत इत्यत आह –

तिङदिभिरनिर्दिष्टे तृतीया न विरुध्यते ।

पौनरुक्त्यान्निषेधोक्तेर्भिन्नार्थापाश्रयान्न[२] तत्॥६०॥

न तावत् तिङ्कृत्तद्धितसमासैरनभिहित इति निषेधोऽदृष्टार्थः । किन्तु घटं क्रियत इत्युक्ते प्रत्ययाभ्यां घटगतकर्मकारकत्वस्याभिधाने पौनरुक्त्यात् तन्निवारणाय निषेधः । तत्र दीर्घेण दण्डेन शुक्लां गामानयेति द्विरभिधानेऽपि यथा


  1. ‘न्य',
  2. 'नि' ख, ग, पाठः