शाब्दनिर्णयः।
६३
कर्तृत्वेनान्वेतीत्यधिकारिणः कर्तृत्वमुपपद्यते । यत्र फलपरमपि[१] पदं पुरुषेण श्रूयमाणेनाध्याह्रियमाणेन[२] वा सम्बन्ध्यसंसर्गे नैराकाङ्क्ष्यं प्रतिपादयति, तत्र काम्यता । यत्र विशेषणान्तरविशिष्टेन नैराकाङ्क्ष्यम्, तत्र नित्यता । फलं च नित्यता सामर्थ्यादेव नित्याभिलषितप्रत्यवायपरिहारः । फलभेदसिद्धौ । च दर्शपूर्णमासलक्षणे कर्मण्यधिकारवाक्यद्वयोपयोगः । न च पुरुषविशेषणयो: कामनाजीवनयो: कस्यचित् फलपरता कस्यचिन्निमित्तपरतेति द्वैरूप्यं[३] दोषः । नियोज्यविशेषणत्वायोगादवश्याभ्युपगन्तव्यत्वात् [४]। न [५]च जीवनमपि नियोज्यविशेषणं सम्भवति । यावज्जीवनस्य[६] साध्यत्वाद् यौगपद्यायोगाज्जीवनमात्रस्यावक्तव्यत्वात् । निमित्तपक्षे तु पौनःपुन्याय यावच्छब्दः । तस्मादिष्टसाधनपक्षे न कश्चिद् दोष इति स्थितम् ॥ ६१ ॥ तस्मात् कार्यान्विते शब्दसामर्थ्यनियमाभावादन्यान्विते सामर्थ्यमित्युपसंहरति-
अतोऽन्यान्वितसामर्थ्यं पदानां परिनिश्चितम् ।
न्यायैरुक्तप्रकारेण यथाशक्ति प्रदर्शितैः॥ ६२ ॥
अत्राकाङ्क्षासन्निधियोग्यतासामर्थ्यात्[७]पदानि संसर्गे प्रतिपादयन्तीति प्रसिद्धम् । केयमाकाङ्क्षा । पदार्थे प्रतिपन्ने प्रतिपत्तुरर्थान्तरविषया जिज्ञासा । किन्निबन्धना सा ,कुतो वा[८] नेिवर्तत इत्यत आह-