३
इति । शाब्दी च बुद्धिरनुमा, सामान्यद्वारेण बोधकत्वात् , प्रत्यक्षादन्यप्रमाणत्वात्, त्रैलोक्यविषयत्वात्, सम्बन्धज्ञान- सापेक्षत्वाच्च, धूमादग्निज्ञानवदित्यर्थः । तन्निराकरणायाह- शब्दविज्ञानादिति । यत्तु -– ‘आप्तोपदेश आगम’ इति लक्षणात् प्रमाणान्तरसापेक्षमर्थमवगमयन्ति शब्दा इति, अत्राह - असन्निकृष्टे इति ॥ ६ ॥ इदानीमाद्ये निराकरणप्रकारमाह-
प्रवृत्त्या न विवक्षाधीर्मीयतेऽर्थैकनिष्ठया ।
प्रयोगहेतुतामेव पश्चादपि समीक्षते ॥ ७ ॥
तत्र न तावच्छब्देभ्यो विवक्षाधीसमधिगमः, बालो हि प्रवृत्तिलिङ्गेनार्थविषयेण शब्दविज्ञानसमनन्तरभाविना विशिष्टार्थविषयामेव बुद्धिं शब्दकार्यत्वेनानुमिमीते, न वक्तुर्विवक्षादिगोचरां, तत्प्रतिपत्तौ प्रमाणाभावात् । व्युत्पन्नः स्वयं शब्दं प्रयुञ्जान: स्वसाक्षिकं विवक्षादिभावमवगम्य पूर्वस्यापि प्रतिपत्तुस्तत्सद्भावमनुमानेनावगच्छति । तथा पूर्वोऽपि प्रतिपत्ता स्वप्रयोक्तृगतविवक्षादिभावं स्वात्मानुमानेन तदानीमेवावगच्छतीति १ तस्यां बुद्धौ पश्चाच्छब्दसामर्थ्यं प्रतिपद्य तेनैतत्प्रयोगहेतुतामेव । विवक्षादेरयं स्वात्मन्यवगच्छति, न शब्दविषयतां, तत्र सामर्थ्याज्ञानात् । तथैव पूर्वयोरपि वक्तृप्रतिपत्रोरित्यवगच्छन् न तत्र शब्दसामर्थ्यं कल्पयति । किञ्च, विवक्षादिर्न २ केवलः शब्दार्थः । अर्थे व्यव-
१. ‘त्यनुमाय त, क. पाठः. २. ‘दिकं न के’ ग पाठः.