शाब्दनिर्णयः ।
६९
न(न्द?न्त)ब्रह्मादिशब्दैर्देशकालवस्तुपरिच्छेदाभावः,अस्थूलादिशब्दैर्निष्प्रपञ्चता, सर्वज्ञत्वादिशब्दैः प्रपञ्चोपाधिधर्मवत्ता कथ्यते । तत्र प्रपञ्चोपाधिकधर्माः सति प्रपञ्चे बाधशून्या इत्येतावत् । स्वरूपेण तु मायात्मकाः । अस्थूलादयश्च निवृत्त्यात्मान इति न परमार्थसदद्वितीयताविरोधः। आनन्दादिशब्दाश्च काल्पनिकसामान्यद्वारेणैकस्यामानन्दव्यक्तौ पर्यवस्यन्ति । धर्मधर्मिविभागप्रतिपादनाभावान्न परमार्थसदद्वितीयताविरोधः । अथवा आकाशशब्दवत् सच्छब्दोऽपि घटादिष्वनुवर्तमानस्यैकस्यैव स्वतन्त्रस्य सतो वाचकः । ज्ञानानन्दशब्दौ तु सामान्यद्वारेण तत्र वर्तिष्येते । एवंच[१] सति । गुणगुणिसम्बन्धप्रयुक्ता लक्षितलक्षणापि न स्यात् । तस्मादेकमद्वितीयमानन्दरूपं [२] ब्रह्म सिद्धम् ॥ ६८ ॥ तथा जीवस्य ब्रह्मात्मता नाध्यासादिलक्षणेत्याह-[३]
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च यतो जीवस्ततः परः ॥ ६९ ॥
यस्मिन् वाक्ये षड्विधम् तात्पर्यलिङ्गं यस्मिन्नर्थे गम्यते, तद् वाक्यं तत्परमित्यध्यवसीयते । तथाचोपक्रमोपसंहारयोरैकरूप्यम् ‘अमतं मतमविज्ञातं विज्ञातम्', ‘एकमेवाद्वितीयम्’, ‘ऐतदात्म्यमिदं सर्वे’,‘तत् त्वमसी’ति ।तथाभ्यासोऽपि ‘एकमेवाद्वितीयं',‘तत् त्वमसी'ति पुनः पुनर्वचनात् । तथापूर्वतापि । नहि ब्रह्मात्मैकत्वं केनचिदपि प्रमाणान्तरेण गम्यते ।