पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/९

पुटमेतत् सुपुष्टितम्

शाब्दनिणयः।

विद्यत एव । नाप्यनयोर्देशनियमो यस्मिन् स्निग्धच्छाया तस्मिन् शैत्यमितिवत् । नापि कालनियमो यस्मिन् घटिकाद्वये कृत्तिकोदयस्तस्मिन् रोहिण्यासक्तिरितिवत् । अव्यवस्थितदेशकालत्वात् । तस्मादनयोरविनाभावाभावान्नार्थस्य शब्दो लिङ्गम् । कुतस्तर्हि सम्बन्धाच्छब्दादर्थप्रतिपत्तिः । तद्बुद्धिसामर्थ्यलक्षणात् । अर्थेनानुबन्धाभावे कथं तद्बुद्धिसामर्थ्यम् । न वयमर्थेनानुबन्धं ब्रूमः । किन्तु तद्बुद्ध्या। स च तज्जननसामर्थ्यलक्षणोऽनुबन्ध इष्यते । नन्वनुबन्धान्तराभावे कथं तद्बुद्धौ सामर्थ्यम् !कृशानोरिव धूमजनने । नहि तत्र तत्सा- मर्थ्यादन्योऽनुबन्धोऽस्ति, अथ तत्र वह्निमात्रं कारणं न सामर्थ्यं नामास्ति, तथापि वह्नेर्धूमो जायते चेत् ,शब्देभ्योऽप्यर्थबुद्धयोऽपि जायन्ताम् । अथ ज्ञानकार्येऽनुबन्धान्तरापेक्षा न कार्यमात्रे, न । चक्षुष्यर्थबुद्धिसामर्थ्यव्यतिरिक्तस्यानुबन्धस्यादर्शनात् । अथ प्रतिपन्नार्थबुद्धिरनुबन्धान्तरनिमित्ता , न । अदर्शनाच्छब्दार्थयोः। स्यात्तर्हि शक्तिलक्षणादेवानुबन्धादनुमानं, न । सम्बन्धान्तरविशिष्टस्यैव बुद्धिसामर्थ्येऽनुमानत्वप्रसिद्धेः । ननु प्रतिपन्नसम्बन्धाद् बुद्धिरनुमानं , सत्यम् । अर्थेन प्रतिपन्नसम्बन्धात् तद्बुद्धिसामर्थ्यविलक्षणात् । नतु तद्बुद्धिसामर्थ्यसम्बन्धादेव बुद्धिरनुमानम् । नन्वेतावता कथं प्रमाणवैलक्षण्यम् । का वा प्रमाणवैलक्षण्यस्येयत्ता। अपिच धर्मधर्मिपक्षधर्मतादृष्टान्ताश्च शब्दस्यार्थबोधने न निरूप्यन्ते ।


१. ‘र्थ्याल्लक्ष, २. ’र्थ्या' ग. पाठः. ३. ‘वानु' क. पाठः