पृष्ठम्:शब्दापशब्दविवेकः.djvu/१८

पुटमेतत् सुपुष्टितम्
( १६ )

सकर्मकः* । अशोच्यानन्वशोचस्त्वमित्यत्र गीतासु यथा ।  अन्तर्णीत क्रियान्तरा अकर्मिका अपि क्रियाः सकर्मिका भवन्ति । तद्यथा--भुजविजितविमानरत्नाधिरुढः प्रतस्थे पुरीम्(रघौ १२।१०४ ) । अत्र प्रस्थानक्रियांया अकर्मकत्वेपि तदङ्गभूतोद्दिशिक्रियापेक्षया सकर्मक- त्वम् । अस्ति च धातूनू क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम् । यथा कुसूलान्पचतीत्यत्रादानगर्भः पाकोऽभिधीयत इति मल्लिनाथः । एवं रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वयेति (१८।३०) भट्टिप्रयोगे रुदेरकर्मकत्वेपि तदङ्गभूतज्ञानक्रियापेक्षया सकर्मकत्वम्।

 क्वचिद् धात्वर्थनिर्देशो विभ्रमकोऽभूदित्यवश्यप्रतिपत्तव्यम् । गृधु अभिकाङ्क्षायामिति दिवादिरकर्मक इति दर्शितचरम् । अर्थनिर्देशस्तु सकर्मकोऽयमिति विभ्रमयति । धनं गृध्यत्यभिकाङ्क्षतीति प्रयोग- प्रसङ्गात् । एवं कृश तनुकरण इत्यर्थनिर्देशानुरोधात्सकर्मकः प्रतीयते । भवति चायं प्रायेणाकर्मक इतीहैवानुपदं व्यक्तं भविष्यति । सप्त मेधान्पशवः पर्यग्टह्वन् स एषां ज्योतिष्माँ उत यश्चकर्श इत्याथर्वणिकाः (अथर्व० १२।३।१६) । तस्मादितर आत्मा मेद्यति च कृशयति चेति ब्राह्मणम् ( ताण्ड्य० ५।१।७ ) । अत्रोभयत्राकर्मकता विस्पष्टा । अत एव लोके वृत्तिकर्शित इत्यादिषु सकर्मकत्वलाभाय णिच् प्रयुज्यते । कृश्यति तनूकरोत्याधारमिति कृशानुरित्यत्र त्वन्तर्भावितण्यर्थः कृश्यतिर्द्रष्टव्यः ।

 तृप प्रीणने, तूप प्रीणन इत्येके । पूर्वो दिवादिरुत्तरस्तु स्वादिः। उभावप्यकर्मकौ । अर्थनिर्देशस्तु पूर्ववद् व्यामोहकः । प्रीणनमिति तृप्तिर्ग्राह्या न तु तर्पणमपि । पितॄनताप्र्सीत् इति भट्टि प्रयोगस्तु चिन्त्यः । अन्यत्रापि भट्टौ क्लिशादिधातुविषये सकर्मकाकर्मकत्वसंकरो दृष्टः +।


 *धातूनामुपसर्गवशात्सकर्मकत्वाकर्मकत्वे इति विषयो ऽस्माभिरुपसर्गार्थचन्द्रिकायां वितत्य निरूपितः । स तत्रैव द्रष्टव्यः । +नृपात्मजौ चिक्लिशतुः ससीतौ (३।३१) इत्यत्र यथा ।