पृष्ठम्:शब्दापशब्दविवेकः.djvu/२४

पुटमेतत् सुपुष्टितम्
( २२ )

वहत्यनेनेति वह्यं वाहनम् । करणे यत्प्रत्ययान्तं निपात्यते । दाम्नीशस- युयुजस्तुतुदसिसिचमिहपतदशनहः करणे (३।२।१८२) इत्यनेन च पल्लृधातोः करणे ष्ट्रणा पत्त्रमिति व्युत्पाद्यते । पतति गच्छत्यनेनेति पत्त्रं वाहनम् । यानमात्रस्य करणत्वमैकान्तिकमित्यत्र चरति (४।४।८) इति शास्त्रमपि द्रढीयो मानम्। हस्तिना चरति हास्तिकः । शकटेन चरति शाकटिकः। यो गत्यर्थधातूनधिकृत्योक्तो नियामस्तस्य वह्यादयो धाञा दयश्च गमनीया भवन्ति । किं च न केवलं मुख्यं यानमपि तूपचरितयान- भावा अपि भावा करणत्वेन व्यवह्रियन्ते न च व्यभिचारं सहन्ते । स्कन्धेन भारं वहतीत्यत्र स्कन्धे यानत्वाध्यारोपेण करणत्वमेवाभिप्रयन्ति न कदाचिदधिकरणत्वम् । तेन स्कन्धे भारं वहतीत्यपप्रयोग: । अत्रार्थे कवीनां प्रयोगा उपोद्बलकाः केचिन्निदर्श्यन्ते । वहेदमित्र स्कन्धेन यावत्कालविपर्ययः । इति पञ्चतन्त्रे । शरत्तारागणतारं हारमुरसा दधानम् इति हर्षचरिते (पृ० ११४ )। प्रश्रयमिवानम्रेण मौलिना पाण्डुरमुष्णीष मुद्वहतेति च (पृ० ६२) । गामधास्यत्कथं नागो मृणालमृदुभिः फणैरिति कुमारे (६।६८॥ )। सर्वपुष्पमयीं दिव्यां शिरसा धारयन्स्रजम् इति श्रीरामायणे (६।२२।१६) । दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिवेति रघौ ( १७।७६ ) । धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता । जातीकटुक- पूमानां लवङ्गस्य फलानि च ॥ इति चरके (सूत्र० ५।७६ ) । मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बालेति कुमारे (१।३६।।)। गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ( १।२१॥) इति किराते । योद्धारोऽबिभरुः शान्त्यै साक्षतं वारि मूर्धाभिरिति भट्टौ (१७।५३ ) । तथेति शेषामिव भर्तुराज्ञामादाय मूर्घ्ना मदनः प्रतस्थ इति च कुमारे ( ३।२२॥)। अत्रोदाहरणेषु गति र्वा प्रापणं वा नार्थो येन करणस्यावकाशः स्यात् । धारणमेव तु सर्वत्राभिप्रेयते । तेनाधिकरणत्वं प्राप्नोति । करणं चेह नितान्तमसत् । अधिकरणं च परमार्थसत् । तथापि करणत्वमेव विवक्षन्ति शिष्टा इति न बह्व्न्वाख्येयम् ।