पृष्ठम्:शब्दापशब्दविवेकः.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६ )

न प्रयुयुक्षन्ते प्रायेण । यावन्न पदान्तरेण तद्विशेषयन्ति । अर्थपौनरु क्त्यात् । न हि शिष्टा वाचं ब्रवीति, शपथं शपते, भोजनं भुङ्क्ते, गीतं गायति, वर्षं वर्षति, संभारान्बिभर्ति, फलानि फलतीत्यादि प्रयुञ्जते। सविशेषणत्वे तु रोचयन्ते प्रयोगम्--शुचिस्मितां वाचमवोचदच्युत इति माघे । शिव भक्तिरियं नो मनोरथदुर्लभानि फलानि फलतीति हर्रचरिते। मधुरं गायति गीतम् इत्यन्यत्र । उक्तलक्षणं कर्तृपदं तु बाढमिच्छन्ति । चौरस्य रुजति रोगः ! चौरस्यामयत्यामय इति च काशिकायाम् ( २।३।५४)। यत्र क्रियामात्र उदिते कर्मणि चानुदितेऽर्थो न पूर्यते तत्रार्थवान् कर्मणः प्रयोग इति न वार्यते । को भवता दायो दत्तः । को भवता लाभो लब्ध इति ।

 इदं चापि व्यवहारानुबन्धि किञ्चिद्वधानेनानुगृह्यताम् । यत्र खतु विशेषणमहिम्ना विशेष्यार्थलाभस्तत्र शक्य विशेष्यमप्रयोक्तम् । तद्यथा सागराम्बरेति समुद्रवसनामुर्वीमाह । विषाक्ते दिग्धलिप्तकावित्यमरा त्केवलौ दिग्धलिप्तकशब्दौ विषसम्पृक्तशरवचनौ परिगृह्यते । उष्णानि कृष्ण वर्तन्त इति भारतप्रयोगेप्युष्णानीति निदाघाहा उच्यन्ते । अजर्यं संगतमिति जीर्यतेर्नञ्पूर्वात्संगते संगमने कर्तरि यत्प्रत्ययो निपात्यते । अजर्यमार्यसंगतम् । परं केवलोप्यजर्यं शब्दस्तादृशे संगते प्रयुज्यते । मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेति रघौ ( १८I७ ) । क्वचिन्नाम्नाऽपि केवलेन तत्कर्मिका क्रिया लक्ष्यते । नागपृष्ठेऽश्वपृष्ठे च परिनिष्ठित इत्यत्र नागपृष्टारोहणेऽश्वपृष्टारोहणे च परं प्रावीण्यमुपगत इत्यर्थेऽभिधित्सितः ।

 अवसितः कारकबिचारः । इदानीं वाक्य उद्दश्यस्य कर्तृता वा स्याद्विधेयस्य वा । अपि वाऽन्यत्रार्थानुरोधात्किमुद्देश्यस्य कर्मत्वमि ष्यतामुताहो विधेयस्येति विचारमवतारयामः । यद्यद्दश्यस्य कर्ता तदा कर्तृवाचिनि तिङि धातोरुद्देश्यमनुसरन्ती पुरुषवचने भविष्यतः। अथ विधेयस्य कर्तृता तदा तदेव ते अनुरोत्स्यतः । एवमेकैकस्य कर्मत्व विवक्षायां तत्तदनुरोधात् धातों पुरुषवचने, क्तान्तात्प्रातिपदिकाच्च तिङ्


 १-रात्राव्हाहः पुंसीति पुंस्त्वम् ।