गणाधिकारः १०३
९. अज्ञातकुलशीले न सहसा विश्वसेत् ।
१०. कामो मे धर्ममातिष्ठेयमधर्मं च घृणीयाम्१ ।
११. यथा शास्त्रमादिशति तथैव तं भगवन्तमुपासेयुर्लोकाः ।
१२. ये सततं शास्त्राण्यभ्यसन्ति स्वाध्यायं२ चाधीयते ते कृतिनः ।
१३. उदीयन्तेऽस्य पुण्यानि । यस्माद् यदयं प्रारभते तदेवास्य फलति ।
१४. उदयति दिशि यस्यां भानुमान् सैव पूर्वा (उदयनाचार्यः) ।
१५. यो हि स्वयं सूत्रं कृन्तति वयति च स वर्धते पूयते च ।
१६. प्रतिरुद्धा प्राप: पूयन्ते ।
१७. न चापररात्रमधीत्य पुनः स्वपेत् ।
९. श्वस प्राणने इत्यदादिः । तेन शपो लुकि विश्वस्यादिति सार्व-
धातुके लिङि रूपम्।
१०. घृणीयामिति स्पष्टं प्रमादः । अधर्मे घृणां कुर्यामित्येव वक्त-
व्यम् । गृ घृ सेचने इति भ्वादिषु। घृणु दीप्ताविति तनादिषु
पठितम् । घृणीयामिति रूपं तु नैकतरेणापि सुसाधम् । न चेष्टा-
र्थलाभः ।
११. पास उपवेशने इत्यदादिरात्मनेपदी। तेन शपि लुकि उपासीर-
न्निति साधु ।
१२. अभ्यस्यन्तीति तु युक्तम् । युक्तत्वे हेतुरुक्तः ।
१३. उदीयन्त इत्यत्र ईङ् गतौ इति दिवादिधातुर्न त्विण् गताव-
दादिः । तेन न कश्चिद्दोषः ।
१४. इट किट कटी गतौ इति भ्वादिषु पठ्यते । तत्र कटीतीकारे इ ई
इति च प्रश्लिष्यन्ति केचित् । तेन उदयतीति तिपि शपि साधु ।
१५. कृती वेष्टने इति रुधादिः प्रयोक्तव्यो न तु कृती छेदने तुदादिः ।
तथा च दाशयतीषु प्रयोगः-पुमाँ एनं तनुत उत्कृणत्ति (१०।
१३०।२) । तेन कृणत्तीत्येव साधु ।
१६. पूयी विशरणे इति दिवादिष्वात्मनेपदी पठितः । तेन नात्र कश्चि-
दोषः ।
१७. ञिष्वप् शय इति धातुरादादिकः । तेन शब्लुकि यासुटि च स्वप्या-
दिति साधु ।१. निन्देयम् । २. वेदम् ।