पृष्ठम्:शब्दापशब्दविवेकः.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सयधिकारः १३


८३. सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः (कारिकावल्याम्) । ८४. पात्त्रमाहर सौम्य । अहमस्म्यनेनार्थी। ८५. अयं विरलं प्रणिदेग्धि शिरस्तैलेन । अयं तु प्रनिदेदेग्धि । ८६. यदुच्छिष्ट प्राश्ञाति (आप० घ० १२१४१) । ८७. वसा शुक्रमसृङ् मज्जा मूत्रं विटकर्णविण्णखाः (११५।९।४३ बौ० ध० व्याख्यायां गोविन्दस्वामिकृतायामुद्धृतं मनुवचनम्) । ८८. नक्तं सुष्वापो मे नास्ति, तत्र हेतुं न वेद । ८९. मुहुर्मुहुर्निष्टनतीव मेदिनी (बुद्ध० २१।११७) । ९०. इयं नः संस्कृतिर्मन्त्रेषूदितोषेव पुराणी युवतिः । ८३. सामान्यपरिहीनास्तु । अत्र कृत्यच (८।४।२६) इति णत्वं न कृतम्, स दोषः। ८४. पात्त्रम् इत्यसाधु । दीर्धादाचार्याणाम् (८।४।५२) इत्यनेन द्वित्व- निषेधात् । पात्रमित्येव साधु । ८५. नेर्गदनदेति सूत्रे देग्धीति श्तिपा निर्देशाद् यङ् लुकि णत्वं नेति प्रनिदेदेग्धि इति साधु । ८६. प्राश्नातीत्येव साधु । शात् (८।४।४४) इति श्चुत्वनिषेधात् । ८७. विण्णखा इत्यत्र न पदान्ताट्टोरनाम् इति ष्टुत्व निषेधाद् विण्नखा इत्येव साधु । सम्प्रत्युपलब्धायां भृगुप्रोक्तायां मनुसंहितायां तु घ्राणकर्णविट् इति पाठः स्थितः । ८८. सुष्वाप इत्यत्र षत्वं दुर्लभम् । सुपिरूपस्यैव सुविनिर्दुर्भ्य: सुपि- सूतिसमाः (८।३।८८) इत्यनेन तद्विधेः । ८९ अभिनिस् इत्युपसर्गसमुदायादुत्तरस्य स्तनतेः सकारस्य मूर्धन्या- देशो विधीयते, समुदायेन चेच्छब्दसंज्ञा गम्यते-अभिनिष्टानो विसर्जनीयः । तेन प्रकृते मूर्धन्यादेशो दुर्लभ इति निःस्तनतीत्येव साधु निस् उपसर्ग इति कृत्वा रूपम् । निरित्युप सर्गे तु निस्तन- तीति विसर्जनीयरहितं रूपम् । ९०. उषेत्याकारान्तं निशान्तवाच्यव्ययम् । तेनेह नार्थः। उष इति सकारान्तं देवतावाचि स्त्रियां वर्तते । तस्येह ग्रहणम् । देवता च पितृप्रसूरिति विवक्ष्यते । एवं सति उषा इवेति वक्तव्यम् । उपधादीर्घे सस्य रुत्वे यत्वे शाकल्यलोपे च रूपम् ।