१०४ शब्दापशन्दविवेके
१८. प्रबला मत्स्या निर्बलान्निगृणन्ति । प्रसिद्धो हि मात्स्यो न्यायो
लोके ।
१९. एष कालः समुत्पन्नो यः पलाति स जीवति ।
२० शुक्ति पश्यन्रजतमिति भ्राम्यति ।
२१. त्रिः परिक्राम्यति देवतायतनं भक्तः ।
२२. सन्तक्ष्णोति१ वाग्भिः प्रैष्यं स्वामी ।
२३. मुहुर्मुहुर्विधवति चन्दनमजरीः समीरः ।
२४. सङ्घाधिकारिणः समनुरुन्ध्मः२ क्रियतां यत्नः संस्कृतेः पुनरुद्धा-
राय।
१८. गृ निगरण इति तोदादिकः । तेन शे निगिरन्ति, अचि विभाषेति
पाक्षिके लत्वे निगिलन्तीति वा साधु ।
१६. पलातीति पल गतावित्यस्य लेटि आडागमे रूपम् । छान्दसा
अपि क्वचिद् भाषायां प्रयुज्यन्त इति दुर्घटवृत्तिः ।
२०. प्रकृते भ्रमु चलने इति भ्वादिः प्रयोक्तव्यः, न तु भ्रम अनव-
स्थाने इति दिवादिः । चलनमिह मण्डलाकारेण चलनमभिप्रेतं
न तु चलनमात्रम् । तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थं
इति तत्त्वबोधिनीकारः । अनवस्थाने पर्यटने तु दैवादिकः प्रयु-
ज्यते । तद्यथा भ्राम्यन्देशमनातपं विधिवशात्तालस्य मूलं गत
इति हरिप्रयोगे।
२१. वा भ्राशम्लाशेत्यादिना वा श्यनि क्रमः परस्मैपदेष्विति दीर्घे
परिक्राम्यतीति साधु ।
२२. तनूकरणे तक्ष इति तनूकरणेश्नुविकरणो न तु भर्त्सने । तेन सन्त-
क्षतीति शपि रूपं साधु ।
२३. धूञ् कम्पने इति चुरादिष्वाधृषीयः । तेन णिजभावपक्षे कर्तरि
विधवतीति सिद्धम् ।
२४. अनो रुध कामे इति कामेर्थेऽनुपूर्वो रुधिर्दिवादिरात्मनेपदी । प्रेर-
यामः प्रार्थयामहे इति चार्थे रुधिः श्नम्विकरणः । तेन प्रकृते
न कश्चिद्दोषः।
१. भर्त्सयते । २. विधूनयति ।
३. तेष्वयमनुरोधः कामोऽस्माकमित्यर्थो विवक्षितः ।