रूपाधिकारः १४१
१०८. वाचि विचक्षणोऽसौ विदुषामपि कृतिषु दोषपूगानददर्शत् ।
१०९. यत्त्वं परधनेऽगृद्धास्तेनापप्तः१ ।
१२०. अकिञ्चित्करतामीयुः सति दोषे गुणा अपि ।
१११. इत्थं निधनं गते श्रवणे तत्पितरौ तन्तप्येते प्राणैश्च वियुज्यते ।
११२. दारुणमिममुदन्तं श्रुतवतां तेषां द्रविष्यन्ति सानुक्रोशानि
चेतांसि ।
११३. देव ! बाघतेऽयं करो२ नः । अपकृष्यतामिति सप्रश्रयं सानुरोधं
चार्तीथपन्प्रजाः ।
११४. कार्यान्तरासङ्गान्नाहमशकमितः पूर्वं त्वत्प्रश्नमुत्तरयितुमिति त्वां
क्षमापये ।
११५. हन्त देवदत्तस्तपस्वी वर्षपूगान् व्याकरणमधिजगौ न च विवेद ।
१०८. दृशेर्णिचि गुणे लुङि चडि सन्वल्लघुनीति सन्वद्भावस्याप्राप्तौ
अददर्शत् इति साधु । उऋत् इति सूत्रप्रवृत्तौ पाक्षिक्याम् अदी-
दृशत् इत्यपि साधु ।
१०९. गृधु अभिकाङ्क्षायामिति दिवादिः परस्मैपदी पुषादिः । तेन लुङि
सिपि 'अगृधः' इत्येव साधु ।
११०. ईयुरिति इणः सार्वधातुके लिङि दुष्टम् । दीर्घस्याप्राप्तेः । लिटि
उसि तु निर्दुष्टम् ।
१११. अत्राभ्यासस्य नुकोऽप्राप्तेर्दीर्घे च प्राप्ते तातप्येते इत्येव साधु ।
११२. द्रु गतावित्यनिट् । तेन द्रोष्यन्तीत्येव साधु ।
११३. अर्थयतेर्लुंङि चङि नान्द्राः संयोगादय इति 'थ' शब्दस्य द्वित्वे
आर्तथन्तेति साधु । अर्थ उपयाच्ञायामनुदात्तेत्, अदन्तश्च ।
बोपदेवस्तु णिचि परतः पूर्वं वृद्धौ कृतायामाकारान्तत्वात्पुकं
करोति, आर्तथपतेति च रूपं साधु पश्यति । तद्रभसात् । वृद्धे-
र्लोपो बलीयानिति पूर्वमतो लोपे वृद्धेरप्राप्तेः ।
११४. क्षमेर्णिचि पुगागमस्याप्राप्तेर्मित्त्वाद् ह्रस्वत्वे च क्षमयामीत्येव
साधु ।
११५. अधि इङ अध्ययन इति ङित्त्वादात्मनेपदी । गाड् लिटीति गाडा-
देशेऽधिजगे इत्येव साधु ।१. गृधु अभिकाङ्क्षायाम् ।
२. भागेदयः, बलिः । ३. सादरम् । ४. वर्षगणम्