१५८ शब्दापशन्दविवेके
२५. अरुणद् यवनः साकेतमिति भाष्यकारः स्माह । तत्र लङ् प्रयोगः
किंकृतः।
२६. अद्य श्वो वा गन्तास्मि । अवशिष्यते प्रस्थानसंभार: कर्तुम् ।
२७. अद्य ह्यो वा प्रातः शाकमभुञ्ज्महीति न सुष्ठु स्मर्यते ।
२८. सखेऽन्यत्रमना अहमभूवम् । अन्यथा सभाजनीयं त्वां कथं नास-
भाजयिष्यम् ।
२९. येषां कुसुमानामामोदो न जाने कियन्ति दिवसानि दिशोऽवास-
यिष्यत् तानि प्रसाधनरसिका अकाल एवावचिन्वन्ति ।
३०. कर्णिनी वै भूमि:, विविक्ते कथय, मा कश्चिद्रहस्यं शृणुयात् ।
२५. परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ् वक्तव्य इत्यनेनात्र
लङ् साधुः । भगवान् भाष्यकार: साकेतरोधेन लोकविज्ञातेन
तुल्यकाल इति साकेतरोधो भगवतो दर्शनविषयः सन्नपि देशान्तरे
वृत्तेस्तस्य परोक्षोऽभूद् इत्यर्थः । तेनोपपन्नो लङ् ।
२६. अनद्यतने लुट् इत्यत्रानद्यतनशब्दो बहुव्रीहिः । अविद्यमानोऽद्य-
तनोऽत्र । तेन व्यामिश्रे लुण्न भवतीति अद्य वा श्वो वा गमिष्या-
मीति वक्तव्यम् ।
२७. अनद्यतने लङ् इत्यत्राप्यनद्यतन इति बहुव्रीहिनिर्देशः। तेन व्या-
मिश्रे लङ् नेति अभुक्ष्महीति लुङि वाच्यम्।
२८. अत्र हेतु हेतुमद्भावो नास्तीति क्रियातिपत्तौ सत्यामपि लृङ्
नोपपन्नः । कथं न सभाजयिष्य इति वक्तव्यम् । एष व्यवहारः ।
अत्रार्थे हेतुप्रपञ्चस्तु वाग्व्यवहारादर्श लकारचिन्तायां द्रष्टव्यः ।
२६. अत्रापि वाक्ययोर्हेतु हेतुमद्भावो नास्तीति क्रियातिपत्तौ गम्य-
मानायामपि लृङ् दुर्लभः । वासयिष्यतीति तु वक्तव्यम् । भवि-
ष्यती वासनक्रिया तत्कालं बुद्धयाऽगृहीतत्वात् । यत्रापि लृङ्
प्रयुज्यते तत्रोभयोर्वाक्ययोस्तस्य प्रयोगो दृश्यते न त्वेकत्रेत्यन्यदे-
तत् ।
३०. माडि लुङ् इति माङ्युपपदे सर्वलकारापवादो शिष्टः सूत्र-
कारेण, व्याख्यातश्च भाष्यकारेण । माशब्दोऽप्यस्ति प्रतिषेधा-
र्थकः, तत्प्रयोगे लोडपि निर्बाध इत्याहुः । अर्वाक्कालानामप-
प्रयोगारणां साधुत्वप्रक्लृप्तये यत्नमात्रमेतदिति वयम् ।