सकर्मकत्वाकर्मकत्वाधिकारः १६३
११. किं ते स्वादन्तेऽमी मोदका आहोस्विन्न । मह्यं तु बहुतरं
स्वदन्ते ।
१२. इयं हि संस्कृतं नाम दैवी वाक् । अनया वयमुपजीवामः प्रतिष्ठां
च लोकेऽधिगच्छामः ।
१३. पुरा किल पराबभूविरेऽसुराः सुरैः । प्रतिमानो हि तेषां पराभवे
हेतुरुच्यते ।
१४. देवदत्तायेक्षते दैवं गर्गः ।
१५. ततः प्राप्ते वैजनने मासि राज्ञी पुत्त्रमजायत ।
१६. लुलपेप वर्णभेदः, सर्वं च संकुलमिव बभूव ।
१७. ते महर्षयो वर्णनामाश्रमाणां च धर्मानादौ शिशिक्षिरे सुखं
लोकयात्रां निर्वहन्तु लोका इति ।
११. स्वाद आस्वादन इति नित्यं सकर्मकः । स्वदिरप्यास्वादनेऽनुभवे
सकर्मकः, रुचावकर्मक इति दीक्षितः । तेन पूर्ववाक्येऽपि स्वदन्त
इत्येव प्रयोज्यम् ।
१२. जीव प्राणधारण इति धात्वर्थेन कर्मण उपसंग्रहादकर्मकः,
उपसर्गवशात्तु सकर्मको भवति, अर्थान्तरं चार्पयति । उपजीवन-
माश्रयणमित्यर्थान्तरम् । तेन इमां वयमुपजीवाम इत्येव साधु ।
१३. परापूर्वो भवतरिकर्मकः प्रायेण पराजयप्राप्तौ विनाशे च वर्तते ।
तथा च भाष्यप्रयोगः-तेऽसुरा हेलयो हेलय इति कुर्वन्त
पराबभूवुरिति । परिपूर्वस्तु नियमेन सकर्मकः ।
१४. राधीक्ष्योर्यस्य विप्रश्न इत्यत्र ईक्षतिर्दैवपर्यालोचने वर्तते इति
धात्वर्थेन कर्मणो देवस्योपसंग्रहादकर्मकः । तेन वाक्ये देवमिति
न प्रयोक्तव्यम् ।
१५. जनी प्रादुर्भाव इत्यकर्मको धातुः । तेन पुत्रमजनयत् इति वाच्यम्।
पुत्त्रं व्यजायतेति वा वाच्यम् । अत्र शिष्टानुग्रहोऽस्तीति नास्या-
साधुत्वमतिशङ्कनीयम् । अन्तर्भावितण्यर्थोऽयमिति व्याख्येयम् ।
१६. लुप्लृ च्छेदन इति तुदादिरर्थनिर्देशादेव व्यक्तं सकर्मकः । तेन
कर्मणि लुलुपे इति वा वाच्यं ननाशेति वा प्रयोक्तव्यम् ।
१७. शिक्ष विद्योपादाने सकर्मकः । प्रकृते प्रयोजकव्यापारोऽपेक्षित
इति णिचि शिक्षयामासुरिति पठनीयम् ।