सकर्मकत्वाकर्मकत्माधिकार: १६५
२५. तदानीमार्यावर्ते सौगता भिक्षवो व्यानशिरे१, विहारांश्च यत्र तत्र
निर्ममिरे ।
२६. इह भारते संन्यासमार्गः कदा प्रारभतेति सहसा वक्तुं न पारयामः ।
२७. भूविचाले कदाचिच्छिखरिशिखराण्यपि भङ्क्त्वा निपतन्ति ।
२८. ये महात्मभिरपि समं विरुन्धन्ति विरुन्धन्ति ते आयतिकं२
स्वमभ्युदयम्।
२९. येन प्रदेशेन प्रवणेन३ नद्यामवतरति सोऽवतार इति वा तीर्थ-
मिति वोच्यते ।
३०. यष्टिभिर्लगुडै: पाषाणैश्च भायिता: शाखामृगा वृशेष्वारोहन्ति
सद्यः ।
३१. दण्डात्कथं नाम मुञ्चेमेति मृगयन्ते हेतूनागस्विनः ।
२५. अशू व्याप्ताविति धातुः सकर्मको व्याप्यस्य कर्मणोऽपेक्षितत्वात् ।
तेनार्यावर्तमिति वक्तव्यम् ।
२६. रभ राभस्य इति नित्यं सकर्मकः । तेन कर्मणि प्रारभ्यतेति साधु
स्यात् ।
२७. भजो आमर्दन इति धातुः । अस्यार्थनिर्देश एव तथाऽभूद्यथास्य
सकर्मकत्वे संदेह एव नोदेति । तेन भग्ना भूत्वेति वक्तव्यम् ।
२८. रुधिर् आवरण इति नित्यं सकर्मकः । तेन महात्मनो विरुन्ध-
न्तीत्येव साधु । विरोधशब्दप्रयोगे तु साहचर्यमपि विवक्षन्ति
व्यवहारविदः । समुन्नयन्भूतिमनार्यसङ्गमाद वरं विरोधोपि समं
महात्मभिः (कि०) इत्यत्र यया ।
२६. अवतरतेर्गत्यर्थत्वात्सकर्मकत्वमभ्युपेयते । तथा सत्यप्यधिकरण.
विवक्षया नद्यामिति साधु स्यादिति चेन्मैवम् । लौकिकी हि
विवक्षा प्रभवति न प्रायोक्त्री । लोकश्चात्र कर्मैव विवक्षति
नाधिकरणमिति कविप्रयोगेषु व्यक्तम् । तेन नदीमवतरतीति
वक्तव्यम् ।
३०. वृक्षानारोहन्ति इत्येव साधु । उक्तो हेतुः ।
३१. मुच्लृ मोक्षणे तुदादिः । मोक्षयति: सकर्मकः । मोक्षयिष्यामि मा
शुच इत्यादिप्रयोगदर्शनात् । तेन मुञ्चतिरपि सकर्मकः । मुचो-
कर्मकस्य गुणो वा (७।४।५७) इति सूत्रं तु मुचेरकर्मकतामपि१. व्याप्नुवन्ति स्म । २. आयतौ भवम् । आयतिरुत्तरकालः । २. निम्नेन ।
४. आगोऽपरधः, तद्वन्तः ।