उपसर्गाधिकारः १८१
७९. आसन्द्यां सुखं संशयानो धनिकः स्वादुङ्कारं ताम्बूलं चर्वति ।
८०. यो हि साध्वतिवाहयति कृत्यं स सुखं प्रैधते ।
८१. कशाप्रहारवर्षेण प्रवाहयति वाहान् देवदत्तो नियन्ता१ ।
८२. महाकाव्यानुशीलनोपप्लावितो ब्रह्मानन्दसहोदरो रसः कणेहत्य
निपीयताम्।
८३. विनेया२ व्याकरणे न्याये च तथाभिविनेया३ यथा गुरुसाहाय्य-
निरपेक्षं ग्रन्थान् संलापयेयुः ।
८४. अहह ! सदाचाराः प्रबलवात्योपहता इवोड्डीयन्ते ।
८५. महानस्य विकार उज्जृम्भते रुजार्तस्य । पीयूषपाणिर्ध्रुवसिद्धिर्नाम
वैद्योऽप्यत्र विमुह्यति ।
८६. अहो स्पृहणीयः स कालो यत्र विद्वत्सु गुणग्राहिता समसरदनु-
रागश्च ।
७९. शयान इत्येव वक्तव्यं समाऽर्थान्तरप्रतीतेः ।
८०. निर्वाहयतीति प्रयोक्तव्यम् । कालमतिवाहयति कालं गमयती-
त्यर्थात् ।
८१. प्रवाहयति प्रकर्षेण वाहयति गमयतीत्यर्थः । कर्णीरथः प्रवहणं
डयनं च समं त्रयमित्यत्रामरे प्रपूर्वो वहतिः प्रकृष्टगतौ त्वरित-
गमने दृष्टः । तेन प्रकृतेऽपि न कश्चिद्दोषः । यथाऽऽपः प्रवहन्ति
स्यन्दन्ते तथा गमयतीत्यर्थः ।
८२. अत्रोपप्लावितशब्दे उपेन नार्थ: । उपप्लव उपद्रवो भेदो विनाशो
वा भवति । प्लावितब्रह्मानन्दसहोदरो रस इति वा वक्तव्यम् ।
परिशब्दो वा योजनीयः ।
८३. विभाषा लीयतेरिति लीङो वाऽऽत्वम् । सम्पूर्वो लीङ् संकोचे
वर्तते संलोनकुक्षिरित्यत्र यथा । संलापयेयुरिति च ण्यन्तं संलपि
बलाद् बुद्धौ करोतीति समशब्दोऽस्थाने ।
५४. उपहतं दूषितं भवति । तेनाऽऽहता इत्येव वक्तव्यम् ।
८५. उज्जृम्भत उत्सहत इति प्रायोऽर्थः । व्यालं बालमृणालतन्तुभि-
रसौ रोद्धुं समुज्जृम्भत इति भर्तृहरौ (१।६) । प्रकटीभवनं
वर्धनं चाप्यर्थावभ्युपगतौ । तेन प्रकृतेऽदोषः ।
८६. संसरणं नाम योनेर्योन्यन्त रोपसंक्रमणं भवति । तेन प्रासरदिति
वक्तव्यम् ।१. सारथिः । २. शिष्याः। ३. शिक्षणीयाः ।