२२ शब्दापशब्दविवेके
२४. मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ।
२५. सभासदानामाचारशुद्धिर्यशसे कल्पते१ सभायाः ।
२६. प्रातरुत्थाय प्रसूं२ तावन्नमस्कुर्यात्ततः पितरम् ।
२७. कैश्चनर्विचारै: प्रयुक्तः सोन्ते गृहमहासीत्३ प्राव्राजीच्च ।
२८. हरिद्वारे कुम्भमहोत्सवे नैकधां जनसंहति विलोक्य ऐक्यमापन्ना
भरतदेशस्था इति वैदेशिका भ्रमन्ति ।
२९. ज्येष्ठे मासि विहायसे वितनुते नव्यो घनस्ताण्डवम् ।
३०. अङ्गे जातभङ्गे भयभृतोत्सङ्गरङ्गः कलिङ्गः ।
३१. नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां
पतिरन्यो विधीयते (इति पाराशराः) ।
३२. उर्वशी नामाप्सरा स्वर्गस्यालङ्कारोऽभूत्, श्रियाश्च प्रत्यादेशः ।
२४. केवलस्य पतिशब्दस्य घिसंज्ञा नास्तीति सप्तम्यां पत्यावितीष्यते।
नञ्समासो वात्र द्रष्टव्यः । कुत्सितः पतिरपतिः । अप्राशस्त्ये नञ् ।
२५. सभासदामित्येव साधु । सभासद् इति दान्तं प्रातिपदिकम् ।
२६. प्रस्वमिति द्वितीयैकवचने साधु । ओ: सुपीति यण्विधेः ।
२७. कैश्चनेत्येव युक्तम् । चनशब्दोऽव्ययम्, पृथक्पदं च ।
२८. 'संख्याया विधार्थे धा' इति क्रियाप्रकारे धाप्रत्ययस्तद्धितः ।
तद्धितश्चासर्वविभक्तिरितीदमव्ययम् । तेन एकधेति साधु ।
अस्थाने चायं प्रयोग इति नादृत्यः ।
२९. विहाय इति सकारान्तं प्रातिपदिकं क्लीबपुसोः, तेन विहाय-
सीत्येव साधु।
३०. अङ्गाः कलिङ्गा इति चेष्यते । तस्य निवास इति चातुरर्थिकस्य
जनपदे लुप् इति लुपि, लुपि युक्तवद् व्यक्तिवचने इति युक्तवद्-
भावाद् प्रकृतिगते लिङ्गसंख्ये युज्येते । अङ्गानां (क्षत्रियाणां)
निवासो जनपदोङ्गाः । एवं कलिङ्गाः ।
३१. पत्याविति तु युक्तम् । हेतुश्चोक्तपूर्वः ।
३२. 'अप्सराः' इति विसर्गान्तं साधु । अप्सरस् इति प्रातिपदिकं
सकारान्तं न त्वाकारान्तम् । एकत्वेऽप्युत्तरत्रयमित्यमरवचनादे-
कवचनेऽप्यस्य प्रयोगः क्वाचित्कः ।
१. अलं भवति, समर्था भवति ।
२. मातरम् । ३ ओहाक् त्यागे इत्यस्य लुङि रूपम् ।