२०४ शब्दापशम्दविवेके
२५. केचित्साहसिका उपलब्ध्यनुपलब्धिभ्यामेव व्यवस्यन्ति सत्त्वा-
सत्त्वे अर्थानाम् ।
२६. विदुषाऽनेन यथेदं सूत्रं विवरीतं न तथा तोषाय नः ।
२७. बटो ! किं वर्तितं त्वया च्छन्दः । आर्य कृत उपक्रमः ।
२८. केनायं तक्षितो यूपः ।
२९. प्रक्षालितोपवातान्यक्लिष्टानि पत्नीयजमानावृत्विजश्च परि-
दधीरन् (बौ० ध० १।१३।५) ।
३०. प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् (नारा० ५६।९)।
३१. ततस्त्वदीयादयि नाभिरन्ध्रादुदञ्चितं किंचन दिव्यपद्मम्
(नारा०)
३२. अञ्चितदक्षिणोरुः (भट्टि० २।३१) ।
२५. डुलभष् इति षिदयं धातुः । तेन क्तिनोऽपवादेन षिद्भिदादि-
भ्योऽङा भवितव्यम् । सत्यम् । प्रतिवर्णमर्थानुपलब्धेरिति भाष्य-
प्रयोगाद् बाहुलकाद्वा क्तिन्नपि बोध्यः ।
२६. विवरीतम् इत्यत्र सेटोऽपि वृणोतेरिड् दुर्लभः । श्र्युक: कितीती-
ण्निषेधात् । तेन विवृतमित्येव साधु ।
२७. वृत्तमित्येव साधु । उक्तो हेतुः ।
२८. तक्षू त्वक्षू इति धातू ऊदितौ पठितौ । ऊदित्त्वाद् इड्विकल्पः ।
निष्ठायां तु यस्य विभाषेतीण्निषेधः । तस्मात्तष्ट इत्येव साधु ।
२९. पै ओवै शोषणे इत्यस्मात् क्ते उपवानानीत्येवोचितम् । ओदि-
तश्चेति निष्ठानत्वम् ।
३०. अबुद्धान् इत्येव साधु । जागरणेर्थे बुध अवगमने इति दिवादेरेव
प्रयोगः । स चानुदात्तः । न तु भूवाद्योर्बुधबुधिरोः ।
३१. विपरीतार्थकृष्णिच् परिहार्यः । असति णिचि क्ते गत्यर्थत्वान्न-
कारलोप इडभावे च उदक्तमिति रूपम् ।
३१. अञ्चेः पूजायाम् इति पूजायामर्थे निष्ठाया इड् विहितः । इह च
पूजार्थो नास्ति । सत्यम् । णिचि सति इड् भविष्यति ।