पृष्ठम्:शब्दापशब्दविवेकः.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नाम्नामधिकारः २३


३३. अल्पायुषमेव जीवजातं निशाम्य१ लोकस्यानित्यतां भावयेत् । ३४. अद्यत्वे यथा तथा यतन्ते प्रख्यातिमधिगन्तुमना जनाः । ३५. पादतलाघातेन नोदयन्तोऽर्वणो वयं क्षणैः कैश्चिदेव गृहमापाम ।२ ३६. नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः...॥ ३७. भगवान् भूतभावनः स्वेन सामर्थ्येनैव द्विपदानभावयच्चतुष्पदांश्च । ३८ परः पापीयान्पराजेयः निशितैर्वा क्षुरधारैर्यमसादनं३ नेयः । ३६. सौधानि ते निर्मिमते नभः स्पृशः । ४०. इत्थं चातुरीभाजैः प्रगल्भमन्यैर्वा वाक्यमुत्तरं दीयते । ४१. एक एव त्वादित्यः द्वादशान्यस्य नामानीति वैदिकाः । ३३. अल्पायुरित्येव साधु । समूहवचनो जातशब्दो नपुंसकम् इति तद्विशेषणेनापि नपुंसकेन भवितव्यम् । ३४. अधिगन्तुमनस इत्येव साधु । बहुवचनं ह्यपेक्ष्यते । ३५. अर्वण इत्यपशब्दः । अर्वणस्त्रसावनञ इति अन्तादेशेन अर्वत इत्येव प्रयोज्यम् । ३६. बह्वत्र भ्रष्टम् । साधीयः पाठान्तरं च दृश्यते-नदीनां शस्त्र- पाणीनां नखिनां शृङ्गिणां तथेति । तेनास्थाने प्रकृतसमाधान- यत्नः । ३७. द्विपदान् चतुष्पदान् इत्युभयमसाधु । असाधुत्वे हेतुरुक्तः पूर्वत्रेति नेहाम्रेड्यते । 'द्विपदः' चतुष्पदः' इति च प्रयोगार्हम् । ३८. निशिताभिः क्षुरधाराभिरिति वक्तव्यम् । धाराशब्दे हस्वोऽवैधः । ३६. नपुंसके नभःस्पृशीति स्यात् । सौधानीति विशेष्यस्य नपुंसक- त्वाद् विशेषणस्य च विशेष्यनिघ्नत्वात् । ४०. चातुरीभाग्भिरित्येव । ण्विप्रत्ययान्तो भाक् शब्दः । ४१. षड्भ्यो लुक् इति जसो लुकि द्वादशेत्येव साधु । १. शम लक्ष आलोचने इति चुरादेर्निपूर्वात् शामयतेर्ल्यपि । २. आप्लृ व्याप्तावित्यस्य लुङि । ३. यमसदनमेव यमसादनम् । अन्येषामपि दृश्यते (६।३।१३७) इति दीर्घः ।