२१४ शब्दापशम्दविवेके
२८. यथाश्मप्लवेन१ तरन्नुदके निमज्जति तथाऽज्ञौ दातृप्रतीच्छका-
विति मनुः सस्मार ।
२९. एको इतिहरिर्भवत्यपरो दृतिहारः । कस्तयोर्विशेषः ।
३०. परिहर खलसम्पर्कम् । परिहर च बुद्धिविलुम्पकानि मादक-
द्रव्याणि ।
३१. क इमे सांराविणं कुर्वते? अयमारवो नः श्रवणशूलायते ।
३२. सन्ततेन स्तन्यस्रावेण कृश्यति२ प्रजातेति३ स विरमणीयः ।
३३. अदण्ड्यैवापराद्धानां विमुञ्चनं नानृशंस्यं४ भवति, नापि न्यायः ।
३४. इमे खनीनां खन्तारोऽश्रान्तं श्रान्ता विश्रममर्हन्ति ।
३५. प्राचि काले कन्यानामप्युपनायनमनुज्ञातमासीदिति केचित् ।
३६. सुशिक्षको हि समूलकाषमुन्मूलयति दुराग्रहं दुरभिमानं च शिष्या -
णाम् ।
२८. स्वच्छन्दवाचो महर्षय इति प्रतीच्छक इति स्मृतिकारप्रयोगो
मान्यः । मानवे (४।१९४) प्रतीच्छक इति प्रयोगः ।
२९. हरतेर्दृतिनाथयोः पशाविति पशौ कर्तरि इन्प्रत्ययः । दृतिहरिः
श्वा भवति । इतिहारस्तु उदहारः (पुरुषः) कर्मण्यण ।
३०. बुद्धिविलुम्पकानि इति सावद्यम् । लुपेर्नुमोऽप्रसङ्गात् । तेन
विलोपकानीति वाच्यम् ।
३१. विभाषाऽऽङि रुप्लुवोरित्यब्घञौ भवतः । तस्मादारव आराव
इत्युभयं साधु ।
३२. स्तन्यस्रवेणेत्येव साधु । ऋदोरम् ।
३३. विमोचनमित्येव साधु । नुमोऽप्रसङ्गात् ।
३४. खनितार इत्येव साधु । खनु अवदारण इत्युदात्तोपदेशः ।
३५. उपनयनम् इत्ये व साधु । आर्ष दीर्घत्वं वा कल्प्यम् । स्मृतिषु
तथा प्रयोगात् ।
३६. निमूलसमूलयोः कष इति कषेर्णमुल् । कषादिषु यथाविध्यनु-
प्रयोग इति नियमात्समूलकाषं कषतीत्येव साधु ।
१. प्लवः कोल उडुपः, नौका ।
२. कृश तनूकरणे दिवादिः, प्रायेणाकर्मकः ।
३. प्रजाता प्रसूता । ४. आनृशंस्यं कारुण्यम् ।