२१६ शब्दांपशब्दविवेके
४४. समयोऽयं नूत्नसाहित्यसृजनस्यानुगुणः । सन्त्यत्र काव्यरसिकाः
प्रभविष्णवः ।
४५. वसुन्धरेयं नो जननी वसुधरेति१ कोऽसंमूढः संशयीत ?
४६. न हिमहा हिमहानिकरोऽभवत् (शिशु० ६।६३) ।
४७. कृतघ्ने नास्ति निष्कृतिः (रा०) ।
४८. सन्तः प्रणयिवाक्यानि गृह्णन्त्यनसूयवः (कुमारिलः) ।
४९. केचिदाहुः शूद्रस्य मन्त्रजापं प्रत्यनधिकारः । तन्मीमांस्यम् ।
५०. अस्तं यियासति रविः । उचितः सम्प्रति कार्योपरामः ।
५१. दुष्करा इमाः समस्यापूर्तयः।
४४. सर्जनमित्येव साधु । ल्युटि गुणस्य दुर्वारत्वात् । भुवश्चेति च्छ-
न्दोविषय इष्णुज्विधिः । छन्दोवत्कवयः कुर्वन्तीति भाषायामपि
प्रभविष्णव इत्यनवद्यम् ।
४५. संज्ञायां भृतवृजिधारिसहितपिदम इति संज्ञायां विषये खच्
प्रत्ययो भवति तेन वसुन्धरेति रूपम् । असंज्ञायां तु वसुनो घरेति
वसुधरेति रूपं साधु ।
४६. ब्रह्मभ्रूणवृत्रेषु क्विप् इति सूत्रे वृत्तौ चतुर्विधो नियम उक्तः ।
तेन हिमकर्मण्युपपदे हन्तेः क्विब्दुर्लभः । बहुलं छन्दसीत्यग्रिम-
सूत्रबलादुपपदान्तरेपि क्विब् भवति । मातृहा । पितृहा । छन्दोव-
त्कवयः कुर्वन्तीति वचनाद् भाषायामपि समाधेयम् ।
४७. कृतघ्न इत्यत्र मूल विभुजादित्वात् को द्रष्टव्यः ।
४८. डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानमिति डुः प्रत्ययः । तेन असू-
यव इति साधु ।
४९. मन्त्रजपं प्रतीत्येव साधु । उक्तो हेतुः ।
५०. कार्योपराम इति तूचितम् । यम उपरम इति धातुपाठादुपरम
इत्यपि परिग्राह्यम् ।
५१. ण्यत्तु भावे न भवत्यनभिधानादिति काशिकायां हनस्त च (३।१।
१०८) इत्यत्रोक्तम् । तथापि कृत्यल्युटो बहुलम् इति भावेऽत्र
ण्यत् । ण्यति वृद्धौ समास्येति स्यात् । संज्ञापूर्वकविधेरनित्यत्वाद्
वृद्धिर्न । बाहुलकाद् यद्वा।१. इति यौगिकम् ।