२४२ शब्दापशब्दविवेके
१४. उद्भटभटचातुरीतया रुद्धानां दुर्गस्थानां प्राणाः कथंचिद्रक्षिताः ।
१५. श्रीसुरेन्द्रनाथो वन्योपाध्यायो वाग्मिनां वरिष्ठ इति तस्य वक्तृतां
श्रोतुमहं कदाचित्कलिकातामयाम् ।
१६. अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः ।
सुजनस्य च निर्माणं जनयति न हि कस्य सन्तोषम् ।।
१७. अनेन वनवासेन मम प्राप्तं फलद्वयम् ।
पितुश्चानृण्यता धर्मे भरतस्य प्रियं तथा ॥ (रा० २।९४।१७)
१८. तन्वाना: कन्यकानामसितनयनयोराञ्जनं दीर्घिमानम् (मोह.
४।७) ।
१४. उद्भटभट चातुर्येति तृतीयैकवचने रूपं साधु । चातुरीति चतुर-
शब्दात्ष्यञै स्त्रियां ङीषि सिद्धम् । उक्तो भावः ष्यञेत्यपरो
भावप्रत्ययोऽनवकाश: ।
१५. वक्तुर्भावो वक्तृता । न हि सा शक्या श्रोतुम् । भावो नाम यस्य
गुणस्य भावाद् द्रव्ये शब्दनिवेशः स भवति । तस्याभिधाने त्व-
तलौ विहितौ न तु कर्मणि । तेन प्रवचनमिति वाच्यम् ।
१६. आ च त्वात् (५।१।१२०) इत्यत्र चकारोऽधिकविधानार्थमिति
दीक्षितः, तेन त्वतलौ कर्मण्यपि भवतो गुणवचनब्राह्मणादिभ्यः
कर्मणि चेतिप्रभृतिषु सूत्रेषूपात्ताभ्यस्ताभ्यस्ताभ्यः प्रकृतिभ्यः ।
वस्तुतोऽपवादैः सह समावेशार्थमिदं वचनमाचार्येण पठितम् ।
तेन भावे विहितानि ष्यञादीनि प्रत्ययान्तराण्येव त्वतलोरपवाद
इति तैः सह त्वतलोः समावेशोभ्यनुज्ञायते नाम, न तु कर्मणि
विहितैरनपवादभूतैरिति कवेः कर्म कवितेत्यत्र तल् दुर्लभ इति
मतं नः।
१७. अनृणस्य भाव आनृण्यम् । ष्यञ् । ष्यञोक्ते भावेऽपरो भाव-
प्रप्ययो नापेक्ष्यत इति स परिहार्यः ।
१८. दीर्धिमानम् इति दुष्यति । प्रियस्थिरस्फिरेत्यादिना (६।४।१५७)
इमनिचि दीर्घस्य द्राघ इत्यादेशो विधीयते । तेन द्राघिमाणम्
इति वक्तव्यम् । मूले णत्वाभावो दोषान्तरम् ।