४ शब्दापशब्दविवेके
४. प्राचार्यो मेऽसंनिहितः, आचार्याणीं नमस्कृत्य यास्यामि ।
५. भिषजादीनामन्नं नोपभुञ्जीतेति स्मरन्त्यृषयः ।
६. किं विधवापुनरुद्वाहस्य शास्त्रदृष्टतां सिसाधयिषस्युताद्यत्वे
सदुपयोगिताम् ।
७. अप्यन्तरायाण्यार्य्य?
८. यन्मान्या विशेषविदो दुर्गता इत्यवमन्यन्ते लोकेन स दुर्णयः ।
९. प्राज्ञेति पदं व्युत्पाद्यतां स्वार्थिकेन तद्धितेन मत्वर्थीयेन वा यथा-
कामम् ।
१०. विराजादिशब्दानां सन्ति मुख्या अर्थाः सन्ति च गौणाः प्रकरणा-
धनुरोधात् ।
११. देवीं सरस्वतीं नमः कृत्वा बृहस्पतिसमं गुरुं च पुरः कृत्य
वाक्यमुक्तावलीं नाम पुस्तिकां प्रणेतुमारभे ।
४. आचार्यानीति साधु । आचार्यादरणत्वं चेति वक्तव्याण्णत्वनिषेधः ।
५. भिषगादीनामिति चोः कुत्वे कृते साधु । पदान्त एष विधिः ।
भिषगिति पूर्वपदम् ।
६. सिषाधयिषसीत्यभ्यासादुत्तरस्य सकारस्य मूर्धन्यादेशे साधु ।
स्तौतिण्योरेव षण्यभ्यासादिति नियमात् । साधेर्ण्यन्ताच्चात्र सन् ।
७. अन्तरायाणीति लोडुत्तमैकवचने साधु । अन्तःशब्दस्याङ्कि-
विधिणत्वेषूपसर्गत्वं वाच्यमित्युपसर्गतायाम् आनि लोट् इति
णत्वम्।
दुर्नय इत्येव साधु । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्य
इति णत्वनिमित्तमेव नास्ति ।
९. प्राज्ञ इत्येवं वक्तव्यम् । रोर्यस्य लोपः। लोप: शाकल्यस्येत्य-
स्यासिद्धत्वाद् गुणो न । अनुकरणम् अनुकार्येणार्थेनार्थवदिति
सुबुत्पत्तिः । अनर्थकमनुकरणमिति मते तु यथास्थितमदुष्टम् ।
१०. विराडादिशब्दानामिति व्रश्चभ्रस्जेति सूत्रेण षत्वे ततो जश्त्वे
च कृते साधु।
११. नमः कृत्वेति निरवद्यम् । साक्षात्प्रभृतीनि चेति विभाषा गति- संज्ञा । गतिसंज्ञाऽभावे नमःपुरसोर्गत्योरिति विसर्गस्य सत्वमपि न । पुरः कृत्येति दुष्टम् । पुरोऽव्ययमिति गतिसंज्ञा। तेन विसर्गस्य सत्वे पुरस्कृत्येत्येव साधु ।