तद्धितपरिशेषः २६९
९४. विवर्त इति दार्शनिकशब्दस्य कोऽर्थः ?
९५. नैलहारिद्रकौसुम्भवासोराशिमदापयत् (बृ० श्लो० सं० ८।३७)
९६. मन्त्रो हीन: स्वरतो वर्णतो वा । किमत्र दुष्टम् ।
९७. त्वत्पादद्युतिवत् सरागसुभगाः (नारा ७४।२) ।
९८. सर्वा व्यवस्थाः स्वकरी चकार (तुलसी० १।३०) ।
९९. तस्याभवद् वैतानिकी न सेवा (तुलसी० १।३१) ।
१००. वृद्धयाजीवस्तु वार्धुषिरित्यमरः ।
९४. दार्शनिकानां शब्द इति विग्रहश्चेन्न दोषः । दार्शनिकाश्चासौ'
शब्दश्चेति समानाधिकरणसमासे तु दार्शनिकशब्दो दुष्प्रयुक्तो
भवति । नायं दर्शनभव इत्यर्थे प्रयुक्तपूर्वः । तेन दर्शने परि-
भाषितो दर्शने रूढ इति वा वक्तव्यम् ।
९५. नील्या रक्तं नीलम् । नील्या अन्वक्तव्यः । तेन लमिति परि-
हार्यम् ।
९६. नैष पञ्चम्यास्तसिर्येनापादाने चाहीयरुहोरित्यनेन निषिध्येत ।
तृतीयाया एष तसिः । स्वरेण वर्णन वा हीन इत्यर्थः।
९७. क्रियातौल्ये वतिर्विधीयते, न तु गुणतौल्ये । तेन इवशब्दः
प्रयोक्तव्यः ।
९८. स्वकरी चकार इति दुष्यति । कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः
(५।४५०) इति सम्पद्यतेः कर्तरि च्वि: शिष्यते । अत्र तु सम्पद्यते-
रधिकरणात् (सप्तम्यन्तात् करशब्दात्) स विहितः । स शास्त्रा-
तिक्रमः । यदि करशब्देन करस्थो लक्ष्यते न दोषाय भवेत् ।
९९. वैतानिकीत्यपशब्दः । उभयपदवृद्धेरविधेः । इह संस्कारवान्
वैतनिकीशब्दोपि दुष्प्रयोगः । वेतनेन जीवतीति वैतनिक
उच्यते, न तु वेतनेन कृता परिचर्या वैतनिकीति भण्यते ।
१००. वार्धुषिरिति वार्धषिकेऽर्थे न सिध्यति । वृद्ध्यर्थं धनं वृद्धिः ।
वृद्धिं गर्ह्यां प्रयच्छति इति प्रयच्छति गर्ह्यम् (४।४।३०) इति
ठक् । वृद्धेर्वृधुषिभावो वक्तव्यः । स च प्रत्ययसंनियोगेनेष्यते,
तेन वृधुषिरिति स्वतन्त्रा प्रकृतिर्नास्ति । ठकि सति वार्धुषिक
इति सिध्यति । पृषोदरादित्वात्कलोपे वार्धुषिरिति रूपसिद्धिरिति
विद्धि ।