पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

नित्यसमासः २७३


६. वेदिनः स्वस्य परस्य च भाषायां वाग्विशेषं विदुः, नेतरे । ७. अद्य वाऽब्दशतान्ते वाऽवश्यभावी मृत्युर्जनिमताम् । ८. साधु खलु पयसः पानं देवदत्तेन । (काशिकायाम्) ९. अस्मास्वधीनं किमु निःस्पृहाणाम् (किराते)। १०. प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः । (रघौ ११३) ६. सुप्युपपदे णिनेर्विधिरिति केवलाद् विदेस्तदप्रसङ्गाद्वेदिन इत्य- साधु । आवश्यके ऽपि पिनेरप्रसङ्गः । अर्थासाङ्गत्यात् । ७. अवश्यम्भावीति साधु । अवश्यमिति मकारान्तमव्ययम् । ८. कर्मणि च संस्पर्शाद् इत्यनेन ल्युटि तु नित्य उपपदसमासः स्यात् । तस्माच्छरीरसुखस्याविवक्षायां रोगाद्यभिभूतो यदाऽश- क्नुवन्नेव साधु पिबति तदायं प्रयोगः साधुर्द्रष्टव्यः । ६. 'कल्प्यो हि वाक्यशेषो वाक्यं वक्तर्यधीनं हि' इति वाक्यकार- प्रयोगादस्मास्वधीनमित्यसमासेऽपि साधु । अन्यथाऽषडक्षाशितं- ग्वलंकर्मालंपुरुषाध्युत्तरपदाद इत्युत्तरपदात्खेऽस्मदधीनमित्येव साधु स्यात् । केचिद् इनं स्वामिनमधिगतोऽधीन इत्येवं व्युत्पाद- यन्ति । १०. इवेन समासो विभक्त्यलोपश्चेति छन्दसि विधिः । तत्रापि न नित्यः, किन्तर्हि क्वाचित्कः । तेन प्रकृते व्यस्तप्रयोगः सङ्गच्छते । इति नित्यसमासविवेचनम्। अलुक् समासाधिकारो द्वितीयः । १. इतः प्राणतरे प्रस्थाताह इति मतिर्मम, विध्नश्चेन्नातर्कितमुप- नमति । २. इदमस्य वचो वाचस्पतेरपि विस्मयमादधीतेति दृढं प्रतीमः । १. घकालतनेषु कालनाम्न इति विभाषा सप्तम्या अलुक् । तेन प्राह्णेतरे इति साधु । पक्षे प्राह्णतरे इत्यपि । २. वाचस्पतेरिति साधु । षष्ठ्याः पतिपुत्त्रपृष्ठपारपदपयस्पोषेषु (८।३।५३) इत्यनेन सत्त्वविधानसामर्थ्यात षष्ठ्या अलुक् । अपरे तु द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृह- मेधाच्छ चेति सामान्यापेक्षज्ञापकात् षष्ठ्या अलुक्, कस्कादि- त्वाच्च सत्वमित्याहुः ।