पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

समासनपुंसकता २९५


३. इयं भाषान्तरोक्ता विषयग्रहणसरणिर्न मदुपज्ञा । ४. इदं स्त्रीसभं याति । ५. सान्द्र।सु तरुच्छायास्वपस्किरन्ते श्वान पाश्रयार्थिनः । ६. नेत्रश्रवणनासासु नित्यं तैलं निषिञ्चेत् । ७. गृहिणो हि नित्यमुलूखलमुसलेन व्यवहारः । शास्त्रकाराश्च तं सूनात्वेन रूपयन्ति । ८. काकोलूकानां वैरं काकोलूकिकेत्युच्यते तद्धितवृत्त्या । ९. पिपतिषतीय गृहस्थूणा, श्च्योतति च च्छदिः । १०. शशोर्णं शशलोमनीत्यमरः पपाठ । तत्राद्यस्य पदस्य साधुत्वम्- पपादय । ३. उपज्ञोपक्रमं तदाद्याचिख्यामायामिति (२।४।२१) नपुंसकत्वे मदु- पज्ञमित्येव साधु । सत्यपि तदादित्वे उपज्ञोपक्रमयोः प्राथम्ये, यदि तस्य विवक्षा नास्ति, तदा समासस्य नपुंसकता नेति न दोषः । भवति च सतोऽप्यविवक्षा यथाऽनुदरा कन्यका । विनोपदेशमाद्यं ज्ञानमुपज्ञा । ४. अशाला चेत्यनेन सभान्तस्य तत्पुरुषस्य नपुंसकतायां ह्रस्वो नपुं- सके प्रातिपदिकस्येति ह्रस्वत्वे स्त्रीसभमिति निरवद्यम् । ५. सान्द्रे तरुच्छाये इति वक्तव्यम् । अत्र पूर्वपदार्थस्य बाहुल्यमिति छाया बाहुल्ये इत्यनेन प्रवर्तितव्यम् । नित्योऽयं विधिः । विभाषा सेनासुराच्छायाशालानिशानाम् (२।४।२५) इति विकल्पस्य नायं विषयः । ६. द्वन्द्वश्च प्रारिणतूर्यसेनाङ्गानाम् इति समाहारद्वन्द्वे स नपुंसकमि- ति नेत्रश्रवणनासम् इति वक्तव्यम् । ७. न दधिपय आदीनीति एकवद्भावनिषेधे उलूखलमुसले इति द्विवचनं प्रयोज्यम् । ८. येषां च विरोधः शाश्वतिक इत्येकवद्भावे स नपुंसकमिति नपुंस- कत्वे च काकोलूकस्येत्येव साधु । ९. गृहस्थूणमित्येव । असमासे तु गृहस्य स्थूणा स्थूणमिति वा स्यात् । १०. गृहशशाभ्यां क्लीबे इति लिङ्गानुशासनमेतस्य साधुत्वे मानम् ।