२९८ शब्दापशब्दविवेके
१२. उक्षा स द्यावापृथिवी बिभर्तीत्यृच्युक्षाशब्द: कमर्थमाहेति जिज्ञा-
स्यम् ।
१३. प्रत्येकस्य प्रश्नस्य समा अङ्काः । ये केऽपि षट् कामतः प्रति-
वक्तव्याः ।
१४. प्रतिकशप्रतिष्कशशब्दयोर्विशेषं ब्रूहि यदि वेत्थ ।
१५. कदाचारा अपि पुरुषाः कदाचिच्चातुर्यवशात्सदाचारा इति
प्रसिध्यन्ति ।
१६. वेदान्तेषु यं द्यावाक्षामे व्याप्य स्थितं पूरुषमाहुः स निःश्रेयसाय
नोऽस्तु ।
१७. इदं त्र्यृचं सूक्तं इदं सप्तर्चम् ।
१८. इमां समस्यामवश्यावश्यं पूरयेयुश्छात्राश्छन्दोविचित्यां च स्वस्य
वैशारदीं प्रमाणयेयुः ।
१२. उक्षशब्द इत्येव साधु । सुब्लुकि सर्वनामस्थानं परं नास्तीत्यु-
पधादीर्घस्याप्रसक्तिः ।
१३. प्रत्येकमित्येव साधु । एकमेकं प्रतीति प्रत्येकम् । वीप्सायामव्ययी-
भावः । नाव्ययीभावादतोऽम्त्वपञ्चम्या इति सुप अमादेशे प्रत्ये-
कमिति रूपम् । प्रश्नशब्दोऽपि षष्ठ्यां बहुवचने पठनीयः ।
१४. प्रतिगतः कशां प्रतिकशः प्रादिसमासः । प्रतिकशोऽश्वो यः कशां
न गणयति । प्रतिष्कशश्च कशेः (६।१।१६२) इति प्रतिपूर्वस्य
कशेः पचाद्यजन्तस्य सुट् निपात्यते षत्वं च । प्रतिष्कश: पुरोयायी
सहायो वोच्यते । तथा च श्रीरामायणे प्रयोगः । त्वं मे भव
प्रतिष्कश इति ।
१५. कोः कतत्पुरुषेऽचीति तत्पुरुषेऽयं विधिः । प्रकृते च बहुव्रीहिः ।
तेन दुर्लभोऽत्र कदादेशः । कुत्सिताचारा इत्येवं वक्तव्यम् ।
१६. दिवो द्यावेति सूत्रेण देवताद्वन्द्वे 'द्यावा' इत्यादेशो विधीयते ।
तेन नात्र कश्चिद्दोषः ।
१७. तिस्र ऋचो यस्मिस्तत्तृचम् । ऋचि त्रेरुत्तरपदादिलोपश्छन्दसीति
वक्तव्यात् त्रे: सम्प्रसारणमुत्तरपदादिलोपश्च । अयं च च्छन्दसि
विधिरिति लोके त्र्यृचमित्यपि साधु ।
१८. लुम्पेदवश्यमः कृत्ये इत्यस्याप्राप्तेरवश्यमवश्यमित्येव साधु ।